पुमान् स्त्रिया

1-2-67 पुमान् स्त्रिया एकशेषः तल्लक्षणः चेत् एव विशेषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तल्लक्षणश्चेदेव विशेष इति वर्तते। वृद्धो यूनेति निवृत्तम्। स्त्रिया सहवचने पुमान् शिष्यते स्त्री निवर्तते, स्त्रीपुंसलक्षणश्चेदेव विशेषो भवति। ब्राह्मणश्च ब्राह्मणी च ब्राह्मणौ। कुक्कुटश्च कुक्कुटी च कुक्कुटौ। तल्लक्षणश्चेदेव विशेष इत्येव — कुक्कुटश्च मयूरी च कुक्कुटमयूर्यौ। एवकारः किमर्थः? इन्द्रश्चेन्द्राणी चेन्द्रेन्द्राण्यौ। <<पुंयोगादाख्यायाम्>> (४.१.४८) इत्यपरो विशेषः। पुमानिति किम्? प्राक् च प्राची च प्राक्प्राच्यौ। प्रागित्यव्ययमलिङ्गम्॥

Siddhanta Kaumudi

Up

स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् । हंसी च हंसश्च हंसौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<पुमान् स्त्रिया>> - पुमान्स्त्रिया । तल्लक्षण एवेति ।वृद्धो यूने॑त्यतस्तदनुवृत्तेरिति भावः । हंसी चेति । अत्र पुंस्त्वस्त्रीत्वमात्रकृतवैरूप्यात् पुंलिङ्गो हंसशब्दः शिष्यते । स्त्रीत्वपुंस्त्वकृतवैरूप्यादेवसरूपाणामि॑त्यस्याऽप्राप्तिः । मातृमातरावित्यत्र जननीवाचकपरिच्छेत्तृवाचकमातृशब्दयोस्तु नायमेकशेषः, एकविभक्तो सरूपाणामित्यनुवत्र्य एकविभक्तौ सरूपाणां स्त्रीत्वपुंस्त्वेतरकृतवैरूप्यरहितानामित्याश्रयणात् । इह च मातरावित्यत्रअप्तृ॑न्निति दीर्घतदभावाभ्यामपि वैरूप्यात् ।अत एव हंसश्च वरटा चेत्यत्रापि नेत्यलम् ।

Padamanjari

Up

स्त्रीपुंसलक्षणश्चेदेव विशेष इति । पदान्तरगम्येऽपि तल्लक्षणे विशेषे भवति, यथा-गौश्चायं गौश्चेयमिति एतौ गावौ चरत इति । एवं कन्याखुकृकवाकुग्रामणीखलपूप्रभुतिषु पुंसः शेषो वेदितव्यः । इह कस्मान्न भवति-हंसश्च वरटा च कच्छपश्च डुलिष्वरुश्यश्च रोहिच्च अश्वश्च वडवा च पुरुषश्च योषिंच्चेति, सर्वत्राप्यत्र स्त्रीपुंसकृत एव विशेषः ? ऽसरूपाणाम्ऽ इति वर्तते, तेन समानायां प्रकृतौ यत्र स्त्रीपुंसकृत एव विशेषस्तत्रैव भवति । इह तु ब्राह्मणवत्सश्च ब्राह्मणीवत्सा चेत्यत्र प्राप्नोति, नैष दोषःऽ स्त्रीपुंसयोः सहविवक्षायामेकशेषः । सा च प्रधानयोरेव भवतीति यत्र प्रधानस्त्रीपुंसकृत एव विशेषस्तत्रैवैकशेषः, इह त्वप्रधानकृतोऽपीत्येकशेषाभावः । इहापि मृगक्षीरादिवज्जातिविवक्षायां कुक्कुटावित्यादि सिद्धम् । द्वन्द्वनिवृत्यर्थन्तु वचनम् । प्रागित्यव्ययमिति । प्रपूर्वादञ्चतेः क्विन्नन्तादस्तातेः ऽअञ्चेर्लुक्ऽ इति लुकि ऽतद्धितश्चासर्वविभक्तिःऽ इत्यव्ययत्वं सत्वासत्वयोर्द्वन्द्वैकशेषौ चिन्त्यौ ॥