वृद्धो यूना तल्लक्षणश्चेदेव विशेषः

1-2-65 वृद्धः यूना तल्लक्षणः चेत् एव विशेषः एकशेषः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शेष इति वर्तते। यूनेति सहयोगे तृतीया। वृद्धो यूना सहवचने शिष्यते युवा निवर्तते। वृद्धशब्दः पूर्वाचार्यसंज्ञा गोत्रस्य — अपत्यमन्तर्हितं वृद्धमिति। वृद्धयूनोः सहवचने वृद्धःशिष्यते तल्लक्षणश्चेदेव विशेषः। तदिति वृद्धयूनोर्निर्दशः। लक्षणशब्दो निमित्तपर्यायः। चेच्छब्दो यद्यर्थे। एवकारोऽवधारणे। विशेषो वैरूप्यम्। वृद्धयुवनिमित्तकमेव यदि वैरूप्यं भवति, ततो वृद्धः शिष्यते युवा निवर्तते। समानायामाकृतौ वृद्धयुवप्रत्ययौ भिद्येते। गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ। वात्स्यश्च वात्स्यायनश्च वात्स्यौ। वृद्ध इति किम्? गर्गश्च गार्ग्यायणश्च गर्गगार्ग्यायणौ। यूनेति किम्? गार्ग्यश्च गर्गश्च गार्ग्यगर्गौ। तल्लक्षण इति किम्? गार्ग्यवात्स्यायनौ। एवकारः किमर्थः? भागवित्तिश्च भागवित्तिकश्च भागवित्तिभागवित्तिकौ। कुत्सा सौवीरत्वं च भागवित्तिकस्यापरो विशेषो विद्यते॥

Siddhanta Kaumudi

Up

यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्यमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ । वृद्धः किम् । गर्गगार्ग्यायणौ । यूना किम् । गर्गगार्ग्यौ । तल्लक्षणः किम् । भागवित्तिभागवित्तिकौ । कृत्स्नं किम् । गार्गवात्स्यायनौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<वृद्धो यूना तल्लक्षणश्चेदेव विशेषः>> - वृद्धो यूना । रूपतोऽर्थश्च भेदेऽपि प्राप्त्यर्थमिदम् । यूनेति ।जीवति तु वंश्ये युवे॑ति वक्ष्यमाणयुवप्रत्ययान्तेनेत्यर्थः । सहोक्ताविति । अध्याहारलब्धमेतत् । गोत्रमिति । वृद्धशब्देनअपत्यं पौत्रप्भृति गोत्र॑मिति सूत्रोक्तं गोत्रं विवक्षितम् ।अपत्यमन्तरिति वृद्ध॑मिति पूर्वाचार्यपरिभाषितत्वादिति भावः । गोत्रप्रत्ययान्त॑मिति यावत् । न चगोत्रं यूने॑त्येव कुतो न सूत्रितमिति वाच्यम्,अपत्याधिकारादन्यत्र गोत्रग्रहणेन लौकिकं गोत्रं विवक्षितमिति सिद्धान्तज्ञापनार्थत्वात् । शिष्यत इति । शेष इति कर्मणि घञन्तमनुवर्तत इति भावः । तल्लक्षण इति । स=गोत्रप्रत्ययो युवप्रत्ययश्च, लक्षणं=निमित्तं यस्येति विग्रहः । विशेषः=वैलक्षणम् । तथाच गोत्रयुवप्रत्ययान्तयोर्विशेषः=वैरूप्यम्, तल्लक्षणश्चेत्=गोत्रयुवप्रत्ययनिमित्तकश्चेदित्यर्थः । अन्यनिमित्तको न चेदित्यर्थः सिद्धः । तदाह — गोत्रयुवेति । कृत्स्नमिति । एवकारलभ्यमिदम् । गाग्र्यश्चेति । गर्गस्य गोत्रपत्यं गार्ग्यः ।गर्गादिभ्यो यञ् । गाग्र्यायण इति । गर्गस्य गोत्रापत्यं गार्ग्यः । तस्यापत्यं युवा गाग्र्यायणः ।यञिञोश्चे॑ति फक् । गाग्र्याविति । अत्र गाग्र्यशब्दस्य गाग्र्यायणशब्दस्य च गोत्रयुवप्रत्ययकृतमेव वैरूप्यमिति गोत्रप्रत्ययान्तो गाग्र्यशब्दः शिष्यत इति भावः । गर्गगाग्र्यायणाविति । गर्गश्च गाग्र्यायणश्चेति विग्रहः । अत्र गर्गशब्दस्य गाग्र्यायणशब्दस्य च युवप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तत्वाऽभावान्नैकशेष इति भावः । गर्गगाग्र्याविति । अत्र गर्गशब्दस्य गाग्र्यशब्दस्य च गोत्रप्रत्ययमात्रकृतवैरूप्येऽपि गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यते, यूना सहोक्त्यभावादिति भावः । भागवित्तिभागवित्तिकाविति । भगवित्तस्य गोत्रापत्यं भागवित्तिः । अत इञ् । भागवित्तेः सौवीरस्यापत्यं युवा कुत्सितो भागवित्तिकः ।वृद्धाठ्ठक् सौवीरेषु॑ इति ठक् । अत्र भागवित्तिशब्दस्य च न [गोत्र]युवप्रत्ययमात्रकृतं वैरूप्यं, कुत्सासौवीरत्वकृतस्यापि वैरूप्यस्य सत्त्वात् । अतो गोत्रप्रत्ययान्तो भागावित्तिशब्दो न शिष्यत इति भावः । गाग्र्यवात्स्यायनाविति । गर्गस्य गोत्रापत्यं गार्ग्यः, वत्सस्य गोत्रापत्यं वात्स्यः । गर्गादित्वाद्यञ् । वत्सस्यापत्यं युवा वात्स्यायनः ।यञिञोश्चे॑ति फक् । गाग्र्यश्च वात्स्यायनवश्चेति विग्रहः । अत्र गाग्र्यशब्दस्य वात्स्यायनशब्दस्य च न गोत्रयुवप्रत्ययमात्रकृतं वैरूप्यं, प्रकृतिवैरूप्यस्य गोत्रयुवप्रत्ययमात्रकृतत्वाऽभावात् । अतो गोत्रप्रत्ययान्तो गाग्र्यशब्दो न शिष्यत इति भावः ।

Padamanjari

Up

वृद्धशब्दोऽयं लोके चरमे वयसि प्रसिद्धः,युवशब्दो द्वितीये, तयोरिह ग्रहणे तरुणश्च वृद्धश्च युवा च स्थविरश्चेत्यादौ स्यात् । ऽवृद्धिर्यस्याचामादिस्तद्वृद्धम्ऽऽजीवति तु वंश्ये युवाऽ- -अनयोः शास्त्रीययोर्ग्रहणे औपगवश्चानन्तर औपगविश्च युवेत्यादावपि स्यात् । अतो युवशब्दस्य तावत्कृत्रिमस्य व्यवहितापत्यवाचिनोऽत्र ग्रहणम्, तत्साहचर्याद्वृद्धशब्दस्यापि व्यवहितापत्यवाचिनः शास्त्रान्तरे प्रसिद्धस्य ग्रहणमित्याह - वृद्धशब्द इत्यादि । गोत्रग्रहणे त्वपत्याधिकारादन्यत्र लौकिकस्य ग्रहणमित्यपत्यमात्रस्य ग्रहणं स्यात् । क्वचित्पुनरधिकोऽपि ग्रन्थः पठ।ल्ते - यूनेति सहयोग एषा तृतीयेति । स इदानीन्तनैः प्रक्षिप्तः, यूना सह वचन इति सहशब्दं प्रयुञ्जानः सूत्रे सहयोगे तृतीयेति दर्शयति । अत एव ज्ञाप्यते-सहविवक्षायामेकशेष इति । विशेषो वैरूप्यमिति । शब्दस्य वृद्धयुवनिमितस्य ग्रहणान्नान्य इति भावः । पदार्थं दर्शयित्वा तदयमर्थ इत्याह-वृद्धयुवनिमितकमेवेत्यादि । समानायामाकृताविति । आकृतिः शब्दस्य प्रवृत्तिनिमितं गर्गापत्यत्वादि । क्वचितु प्रकृताविति पाठः, प्रकृतिः मूलप्रकृतिर्गर्गशब्दादिः । गार्ग्यश्चेत्यादि । गर्गवत्सशब्दाभ्यां गर्गादित्वाद्यञन्ताभ्यां यूनि ऽयञिञोश्चऽ इति फक् । गार्ग्यायणाविति । प्रकरणादिनात्र जीवद्वंश्यतावसायः; शब्दस्य गोत्रद्वयस्यापि साधारणत्वाद् । यद्येवम्, गार्ग्यश्च गार्ग्यश्चेति गोत्रशब्दयोरेव पूर्वेणैकशेषोऽस्ति प्रकरणादिनैव युवत्वमन्यतरस्य गंस्यते । यूनो हि द्वावाकारौ-जीवद्वंश्यत्वम्, पौत्रप्रभृत्यपत्यत्वं च; तत्र विशेषाविवक्षायां सामान्यशब्दो न निवर्तते, यथा-वस्तुतो भूतानद्यतनेऽपि ऽअभून्नृपो विबुधसखःऽ इति लुङ् भवति, तस्मान्नार्थ एतेन ? उच्यते; प्रकरणानपेक्षेण शब्देन जीवद्वंश्यत्वं प्रतिपादयितुकामो द्वन्द्वं प्रयुञ्जीत गार्ग्यायणाविति । अतो द्वन्द्वनिवृत्यर्थं वचनम् । प्रत्युदाहरणे तु सर्वत्र द्वन्द्वो भवति - गार्ग्यवात्स्यायनाविति । नन्वत्र विशेषान्तरसद्भावेऽपि तल्लक्षणो विशेषो विद्यत इति स्यादेकशेषः, नैष दोषः; एवमर्थवचनं व्यज्यते-योऽसौ विशेषो यस्य सद्भावात्पूर्वेणापप्राप्तिः, स तल्लक्षणश्चेदिति । एवं च यावदुद्देश्यं विधेयसम्बन्धात् सूत्रारम्भहेतुभूतस्य कृत्स्नस्य विशेषस्य तल्लक्षणत्वविधानात् कुतोऽत्र प्रसङ्गः ! इह तु प्राप्नोति - भागवितिभागवितिकाविति, कृत्स्नस्य विशेषणस्य तल्लक्षणत्वात् ? एवकारेण तु व्यावर्त्यते, न ह्यत्र तल्लक्षण एव विशेषस्तदाह - कुत्सा सौवीरत्वं चापरो विशेष इति । विशेषहेतुरित्यर्थः ॥