सरूपाणामेकशेष एकविभक्तौ

1-2-64 सरूपाणाम् एकशेषः एकविभक्तौ

Sampurna sutra

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


सरूपाणाम् एकविभक्तौ एकशेषः

Neelesh Sanskrit Brief

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


सर्वासु विभक्तिषु येषां रूपाणि समानानि सन्ति, तेषु केवलं एकः शब्दः एव अवशिष्यते ।

Neelesh English Brief

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


If two or more words have identical forms for all विभक्तिs, then in usage only one word is used by applying appropriate वचन to it.

Kashika

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


समानं रूपम् एषाम् इति सरूपाः। सरूपाणां शब्दानं एकविभक्तौ परत एकशेषो भवति। एकः शिष्यते तरे निवर्तन्ते। वृक्षश्च वृक्षश्च वृक्षौ। वृक्षश्च वृक्षश्च Vर्क्षश्च वृक्षाः। प्रत्यर्थं शब्दनिवेशान् न एकेन अनेकस्य अभिधानम्। तत्र अनेकार्थाभिधानेऽनेकशब्दत्वं प्राप्तं तस्मादेकशेषः। सरुपाणाम् इति किम्? प्लक्षन्यग्रोधाः। रूपग्रहणं किम्? भिन्नेऽप्यर्थे यथा स्यात्। अक्षाः। पादाः। माषाः। एकग्रहणं किम्? द्विबह्वोः शेषो मा भूत्। शेषग्रहणं किम्? आदेशो मा भूत्। एकविभक्तौ इति किम्? पयः पयो जरयति। ब्राह्मणाभ्यां च कृतं ब्राह्मणाभ्यां च देहि।

Siddhanta Kaumudi

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते । प्रथमयोः पूर्वसवर्णः <{SK164}> । नादिचि <{SK165}> वृद्धिरेचि <{SK72}> । रामौ ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


एकविभक्तौ यानि सरूपाण्येव दृष्टानि तेषामेक एव शिष्यते॥

Neelesh Sanskrit Detailed

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


समानानि रूपाणि येषाम् ते सरूपाः । यदि द्वयोः वा अधिकानाम् शब्दानाम् सर्वासु विभक्तिषु सर्वाणि रूपाणि समानानि भवन्ति, तर्हि तेषाम् निर्देशं कर्तुम् तेषाम् सर्वेषाम् शब्दानां प्रयोगः न भवति, अपितु एकस्य एव शब्दस्य प्रयोगं कृत्वा तेषामुल्लेखः भवति । यथा, द्वयोः वृक्षयोः विषये वक्तुम् इच्छामश्चेत् 'वृक्षः च वृक्षः च' इति वृक्षशब्दस्य द्विवारं प्रयोगः न भवति । द्वयोः वृक्ष-शब्दयोः सर्वाणि रूपाणि समानानि सन्ति, अतः उल्लेखसमये एकः एव वृक्ष-शब्दः अवशिष्यते, अन्यः निवर्तते । यः शब्दः अवशिष्यते, स एव द्वयोः वृक्षयोः निर्देशं करोति, अतः तस्य द्विवचनस्य प्रत्ययाः भवन्ति, यथा - वृक्षौ । तथैव, त्रयाणामधिकानाम् वा वृक्षाणाम् विवक्षा अस्ति चेदपि 'वृक्षः च वृक्षः च वृक्षः च' इति न उक्त्वा एकस्यैव वृक्ष-शब्दस्य बहुवचनस्य प्रत्ययैः प्रयोगः भवति, यथा - वृक्षाः ।

ज्ञातव्यम् -

  1. यद्यपि द्वयोः शब्दयोः केवलं रूपम् समानमस्ति, परन्तु अर्थः न; तथापि अनेन सूत्रेण एकशेषः भवति । यथा - 'मृग' शब्दस्य अर्थः 'हरिणः' इत्यपि अस्ति, तथा 'प्राणी' इत्यपि । भिन्नयोः अर्थयोः अपि द्वयोः शब्दयोः सर्वाणि रूपाणि समानानि सन्ति । अतः 'हरिणः च व्याघ्रः च सिंहः च' अस्मिन् अर्थे एकः एव मृग-शब्दः अवशिष्यते, तस्य च बहुवचनस्य प्रत्ययः भवति; यथा - मृगाः ।

  2. यदि द्वयोः शब्दयोः कासुचन विभक्तिषु एव रूपम् समानमस्ति, सर्वासु न; तर्हि अनेन सूत्रेण एकशेषः न विधीयते । यथा - 'मातृ' अयं शब्दः द्वयोः अर्थयोः प्रयुज्यते - 'जननी' अस्मिन् अर्थे अयं ऋकारान्तस्त्रीलिङ्गशब्दः अस्ति, तथा च 'माङ् (माने)' अस्मात् धातोः तृच्-प्रत्ययं कृत्वा 'यः मिमेति सः' अस्मिन् अर्थे अपि मातृ-शब्दः सिद्ध्यति । एतयोः द्वयोः शब्दयोः कानिचन रूपाणि तु समानानि सन्ति (यथा- तृतीयैकवचनस्य 'मात्रा' इति) परन्तु केषुचन रूपेषु भेदः दृश्यते । उदाहरणम् - मातृ (जननी) इत्यस्य प्रथमाद्विवचनस्य रूपम् 'मातरौ' इति भवति, तथा मातृ (= यः मिमेति सः) इत्यस्य प्रथमाद्विवचनस्य रूपम् 'मातारौ' इति भवति । अस्यां स्थितौ एतौ द्वौ शब्दौ सर्वासु विभक्तिषु सरूपौ न उच्येते, अतः 'मातृ च मातृ च' (= जननी च, यः मिमेति स च) इत्यत्र एकशेषः न भवति ।

Balamanorama

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


सरूपाणामेकशेष एकविभक्तौ - अथ प्रातिपदिकार्थगतद्वित्वादिविक्षायां प्रातिपदिकस्य द्वित्र्यादिप्रयोगप्राप्ताविदमारभ्यते — सरूपाणाम् ।एकविभक्ता॑विति 'सरूपाणा' मित्यत्रान्वेति । समानं रूपं येषां तानि सरूपाणि । ज्योतिर्जनपदेत्यादिना समानस्य सभावः । निर्धारणषष्ठी ।वृद्धो यूने॑त्युत्तरसूत्रादेवेत्यपकृष्यते । शिष्यते इति शेषः । कर्मणि घञ् । एकश्चासौ शेषश्चेति पूर्वकालैकेति समासः । एकस्यां विभक्तौ परतः सरूपाणामेव दृष्टानां मध्ये एकः शिष्यते इति फलति । तदाह — एकविभक्ताविति । एवेति कम् । मातृशब्दस्तावज्जननीवाची परिच्छेतृवाची च । त्र मातृभ्यामिति भ्यामादौ क्वचित्सारूप्ये सत्यपि, औजसादिषु मातरौ माताराविति वैरूप्यदर्शनान्नैकशेषः । यद्यपि कतिपयविभक्तौ उक्तयोर्मातृशब्दयोः सारूप्येणैव दर्शनमस्ति । तथापि एकस्यामपि विभक्तौ परतो विरूपाणि न दृष्टानित्यर्थो विवक्षितः । एतद्दयोतनायैव एकविभर्तावित्यत्रएक॑ग्रहणम् । एवकारापकर्षसिद्धार्थकथनपरमेकग्रहणं स्पष्टार्थमेवेति केचित् । 'एकशेष' इत्येकपदोपादानं तु द्विबहूनामपि शेषो मा भूदित्येतदर्थम् । 'शेष' पदानुपादाने तु सरूपाणां स्थाने एक आदेशः स्यात् । ततश्च अआश्च अआश्चेति द्वयुदात्तवतः स्थाने द्व्युदात्तवानादेशः स्यात् । तन्निवृत्त्यर्थं शेषग्रहणम् । एकविभक्ताविति सारूप्ये उपलक्षणम् । न तु एकविभक्तौ परतः एकशेषो भवतीति व्याख्यानमुचितम्, जननीपरिच्छेत्तृवाचिनोरेकशेषापत्तेरित्यादि प्रपञ्चितं प्रौढमनोरमायाम् । अत्रतिष्यपुनर्वस्वोर्नक्षत्रद्वन्द्वे ॑ इति पूर्वसूत्राद्द्वन्द्व इत्यनुवर्त्त्य द्वन्द्वे प्रसक्त इति व्याख्येयम् । ततश्च 'देवदवः' 'राजराज' इत्यादौ नैकशेषः । द्वन्द्वापवाद एकशेष इति फलितम् । यद्यप्यनैमित्तिकत्वादन्तरह्गोऽयमेकशेषः सुबुत्पत्तेः प्रागेव प्रवर्तते, तथापि द्वन्द्वापवाद एवायम् । असति ह्रेकशेषे सुबुत्पत्तिः, पक्षे द्वन्द्वश्च स्यात् । सति तु अनेकसुबन्तीविरहाद्द्वन्द्वस्याऽप्राप्तिः फलिता । घटश्च घटश्च घटश्च तेषां समाहार इति समाहारद्वन्द्वविषये तु नास्य प्रवृत्तिः, अनभिधानात् । द्वन्द्वे कृते एकशेष इति तु न व्याख्येयम् । 'पन्थान' इत्यादौ ऋक्पूरित्यादिसमासान्तापत्तेः । करावित्यादौद्वन्द्वश्च प्राणितूर्ये॑त्याद्यापत्तेः । पूर्वसूत्रादिह द्वन्द्वग्रहणानुवृत्तौ चइदितो नुम्धातो॑रित्यत्र 'इदित' इति निर्देशो लिङ्गम् । इत्िकार इत्संज्ञको यस्य स इदित् । अत्र इच्छब्दयोरेकविभक्तौ सारूप्येऽपि द्वन्द्वविषयत्वाऽभावान्नैकशेषः । अन्यथा तत्राप्येकशेषः स्यादित्यलम् । राम औ इति स्थिते प्रक्रियां दर्शयति-प्रथमयोरित्यादिना । वृदिंध बाधित्वा पूर्वसवर्णदीर्घे प्राप्ते आह-नादिचीति । तस्मिन् प्रतिषिद्धे सति वृद्धेः प्रवृत्तौ रामौ इति रूपमित्यर्थः ।

Padamanjari

Up

index: 1.2.64 sutra: सरूपाणामेकशेष एकविभक्तौ


समानं रूपं येषामिति सरूपा इति । ऽज्योतिर्जनपदऽ इत्यादिना समानस्य सभावः । ऽसह रूपेण वर्तन्त इति सरूपाःऽ इति तु न भवति; व्यभिचाराभावात् । रूपशब्दश्चैह श्रोत्रग्राह्यए शब्दसम्बन्धिनि स्वरूपे वर्तते, न चक्षुर्ग्राह्यए शुक्लादौ; शब्दानुशासनप्रस्तावातदाह - सरुपाणां शब्दानामिति । निर्धारणे चैषा षष्ठी, समुदायापेक्षया वा । अत्र पञ्च पक्षाः सम्भवन्ति । समानपर्याय एकशब्दः ऽतेनैकदिक्ऽ इतिवत् । समिअन्त्वं च भेदाधिष्ठानमिति पृथक् सर्वेभ्यः समानायां विभक्तौ परत एकः शिष्यत इति प्रथमः । ऽद्वन्द्वेऽ इति वर्तते, तत्र विरूपेषु सावकाशमपि द्वन्द्वमेकशेषो न बाध्ते,निमितत्वात्; सरूपाणां द्वन्द्वे कृते समासादेकस्यां विभक्तौ परत इति द्वितीयः । अत्र पक्षे सड्ख्यावाच्येकशब्दः । ऽह्रस्वो नपुंसकेऽ इत्यतः ऽप्रातिपदिकस्यऽ इति वर्तते, एकविभक्ताविति सारूप्योपलक्षणम् । एकविभक्तौ यानि सरूपाणि दृष्टानि तेषां प्रातिपदिकानामेवानैमितिक एकशेष इति तृतीयः । विभक्तिशब्दः कारकशक्तिवचनः, विभज्यतेऽनया प्रातिपदिकार्थ इति कृत्वा; एकस्मिन्कारके विवक्षिक्तिं प्रसूत इति ; पृथग् विभक्त्यन्तानामेकशेष इति चतुर्थः । सरूपसमुदायादेकस्यां विभक्तौ परत इति पञ्चमः । तत्राद्ये पक्षे-वृक्षस् वृक्षस् वृक्षस् इति स्थिते पूर्वयोर्निवृतौ स् स् वृक्षस् इति स्थिने मध्यसम्बन्धिनः सोर्हल्ङ्यादिलोपे तदितरयोः श्रवणप्रसङ्गः । एवमाद्यन्तयोरपि निवृतौ द्रष्टव्यम् । परयोर्द्वयोर्निवृतावपि शिष्यमाणसम्बन्धिनो लोपपासिद्धिरेव । गोदौ वरणा इत्यादौ च पृथग् द्विवचनयोः परत एकशेषे तयोः श्रवणप्रसङ्गः । यत्र हि प्रत्ययनिमिता प्रकृतिनिवृत्तिस्तत्र केवलस्यापि प्रत्ययस्य प्रयोगो भवत्येव, यथा - इयानिति । द्वितीये तु - अश्व अश्व औ इति स्थिते विभक्त्यपेक्षाच्छेषात्पूर्वमन्तरङ्गत्वात्समासान्तोदातत्वे कृते यदि पूर्वशेषः सर्वानुदातं पदं स्याद् परशेषे तु अश्वशब्दान्तोदातः स्यात्, इह च ऋक्च ऋक्च ऋचौ अन्तरङ्गत्वात् ऽऋक्पूरब्धूःऽ इति समासान्ते कृते विभक्तेरकारेण व्यवधानान्नैकशेषः स्यात् । समासान्तो हि समासग्रहणेन गृह्यमाणस्तमेव न व्यवदध्यात्, सरूपं तु व्यवदधात्येव । एकग्रहणं वानर्थकम्, न हि द्वन्द्वाद्यौगपदनेका विभक्तिः सम्भवति । यदि पुनरेकविभक्तावित्येतदकृत्वा द्वन्द्वक्रियानन्तरमेवैकशष इत्युच्येत, एवमपि पादौ पादा इत्यादौ द्विवचनबहुवचने न स्याताम् ; प्राण्यङ्गादीनां समाहार इव द्वन्द्व इति नियमाद् । तृतीये तु पक्षे जननीवचनो यो मातृशब्दः, यश्च ऽमाङ् मानेऽ इत्यस्मातृचि धान्यमातृवचनः, तयोरपि माता मातृभ्याम् इति क्वचिद्विभक्तौ सरूपत्वात्सर्वत्रैकशेषप्रसङ्गः । तथा हरितशब्दाद्वर्णादनुदातादिति ङीब्नकारयोर्यो हरीणीशब्दः सम्पद्यते, यश्च हरिणशब्दाज्जातिलक्षणे ङीषि, तयोर्न स्यात्; ङ्यन्तयोः सारूप्येऽपि प्रातिपदिकावस्थायामसारूप्यात् । चतुर्थे तु निवर्तमानः शब्दो यद्यपि सह विभक्त्या निवर्तते, शिष्यमाणस्य त्वेकवचनश्रवणप्रसङ्गः । अतः पञ्चमं पक्षमाश्रित्याह - सरूपाणां शब्दानामेकविभक्तौ परत इति । सरूपसमूदायादेकस्यां विभक्तौ परत इत्यर्थः । ननु ऽङ्याप्प्रातिपदिकात्ऽ इत्येकवचनान्तानां द्वन्द्वः, तत्र चैकत्वं विवक्षितम्, तत्कथं प्रातिपदिकसमुदायाद्विभक्तिः ? अस्तु प्रत्येकं प्रातिपदिकत्वम्, समुदायोऽपि त्वर्थवत्वात्प्रातिपदिकम्, कः पुनः समुदायस्यार्थः ? परस्परसम्बन्धः, एकैकेन विशकलितोऽर्थ उच्यते । समुदायेन तु सम्बन्धः तुल्यजातीयस्य चार्थवत्समुदायस्य समासग्रहणेन निवृत्तिः । कश्च तुल्यजातीयः ? यत्र पूर्वो भागः पदम् । न चात्रैवमिति समुदायाद्विभक्तिरविरुद्धा । सा त्वनुद्भूतावयवभेदत्वाद् द्विवचनं बहुवचनं वा, न त्वेकवचनम् । नावौ जनावौ कर्तारावित्यादावच्परत्वादावादिष्वपि कृतेषु विरूपाणामपि समानार्थत्वादेकशेषः । शेषशब्दोऽयं नागराजे अनन्ते अप्रधाने तौपयुक्तादन्यत्र च न वर्तते, किं तर्हि ? निवृत्तिमदवस्थान इत्याह-एकः शिष्यते इतरे निवर्तन्ते इति । नन्वस्मिन् पक्षे एकग्रहणमनर्थकम्, न हि समुदायद्यौगपदेनेका विभक्तिः सम्भवति ? उच्यते, असत्येकग्रहणए पृथक् सर्वेभ्यो विभक्तौ परत इति प्रथमोऽपि पक्षः सम्भाव्येत । अतो यत्र पक्ष एकैव विभक्तिः सरूपाणां सम्भवति स एवैकग्रहणादा श्रीयते । अथ वा चतुर्थे पक्षे ग्रन्थः-कथं तर्हि विभक्तौ परत इति, न हि कारकशक्त्या शब्दानां पौर्वापर्यं भवति, उच्यते; इष्टवाची परशब्दः एकस्यां विभक्ताविष्यायां एकस्मिन्कारके विवक्षित इति यावत् । ननु चोक्तम्-शिष्यमाणस्यैकवचनश्रवणप्रसङ्ग इति, न वेदानीं निवर्तमानसङ्ख्यावेशादुपजायमाने द्वित्वबहुत्वे द्विवचनबहुवचने उपजनयितुमुत्सहेते, प्रत्ययान्तत्वेनाप्रातिपदिकत्वात्, नैष दोषः; सहविवक्षायामेकशेषः । का पुनः सहविवक्षा ? उक्तमत्र- अनुद्भूतेव भेदानामेका प्रख्योपजायते । यदा सहविवक्षां तामाहुर्द्वन्द्वैकशेषयोः ॥ इति । अयमर्थः - यदा बहवोऽर्था एकस्यां बुद्धौ उपारूढाः, यथा - पुरोऽवस्थितस्य हस्तस्य पञ्चाङ्गुलयः, ते चैकस्मिन्गुणे क्रियायां वा तथैव विनियुज्यन्ते-शोभना इति वा, दृश्यन्त इति वा, तदा सहविवक्षा । तथा हि-आत्मनो या बुद्धिस्तां परत्र संक्रमयितुं प्रयोक्त्रा शब्दः प्रयुज्यत इति । यदि चावयवाः पृथक् पृथगवधारिताः स्युः, यथा वातायनगतेन क्रमेण गच्छन्तः ततो भिन्नैरेव शब्दैः प्रत्यकं पर्यवसायिभिरेकवचनान्तैरभिधीयतेरन् । समुदायाकारा त्वनुस्यूतावयवभैदैका बुद्धिः तां परत्र सङ्क्रमयितुमितिच्छता तदनुरूपं शब्दः प्रयोक्तव्यः । न च तादृशस्य समुदायस्यासाधारणः कश्चिच्छब्दोऽस्स्तीत्यवयवशब्दैरेवासौ प्रतिपाद्यः । उपपदाय्ते चावयवशब्दैरेवाभिधानाम्; समुदायसमुदायिनोरभेदात् । स चैकैक एवावयवशब्द उद्भूतावयवभेदसमुदायप्रतिपादानाद् द्विवचनान्तो बहुवचनानतश्च प्रवर्तत इति नैकवचनश्रवणप्रसङ्गः । यद्येवम्, एकेनैवावयवशब्देन तादृशस्य समुदायस्याभिधातुं शक्यात्वान्न यावदवयवशब्दप्रयोगप्रसङ्गः । अथ मतम्-अन्योऽन्यसन्निधावेव समुदायरूपार्थाभिधानशक्तिः प्रादुर्भवति, कथं तर्हि एकषेषारम्भे एकस्य सा भवति, न हि सतोऽसती शक्तिरेकशेषवचनेन कर्तुं शक्यते ? उच्यते; विरूपेष्वन्योऽन्यसन्निधाने समुदायार्थाभिधानशक्तिः प्रादुर्भवति । पटुअगुप्तावित्यत्रापि ह्युद्भूतावयवभेदं समुदायं प्रतिपादयितुमवयवशब्द एव प्रत्येकं द्विवचनान्तः प्रवर्तते, अन्यथा द्विवचनबहुवचनायोगात्स्वार्थमात्रपर्यवसायिभिरवयवशब्दैः क्रमेणैवोच्चरणादर्थोऽपि प्रतीयते । क्रमेण चानेकार्थप्रतीतौ द्विवचनबहुवचने न भवतः । समुच्चयश्च भवति, तद्यथा वाक्य- - पटुअश्च गुप्तश्चेति । अतो विरूपेष्वेवं दर्शनात्सरूपेष्वपि द्वन्द्वाशङ्कायां सरूपेष्वेकस्यैवानेकार्थप्रतिपादनशक्तिरस्तीति वचनेन व्युत्पाद्यते । अन्ये तु तृतीयमपि पक्षं ग्रन्थारूढ्ंअ वर्णयन्ति । सरूपाणां शब्दानामेकविभक्तौ परत एकशेषो भवति; एकविभक्तौ परतः सरूपाणामित्यन्वः, न त्वेकशेष इति । एकस्मिन्कारके विवक्षिते, एकविभक्तौ वा परतो ये सरूपा दृष्टाः शब्दास्तेषामित्यर्थः । तत्र च शिष्यमाण एव निवर्तमानस्याप्यर्थमाचष्टे । अग्निचिदिति प्रत्ययनिवृतौ प्रकृतिवदिति द्विवचनबहुवचने यथायोगं भवतः । तत्र यदुक्तम्-हरितहरिणयर्ङ्यन्तयोर्न स्यादिति, तन्न; प्रातिपदिकग्रहणं नानुवर्तते, तेन ङ्यन्तयोहेव सारूप्याद् भविष्यति । यदप्युक्तम्-मातृशब्दयोः प्रसङ्ग इति, अर्थविप्रतिषेधान्न भविष्यति । कृते ह्यएकशेषे ताभिरित्यनुप्रयोगे पुनर्थो न गम्यते, तैरित्युक्ते स्त्र्यर्थः । वक्ष्यमाणस्य वा एवकारस्येहानुकर्षणादेकविभक्तौ यानि सरूपाण्येवेत्याश्रयणात्परिच्छेतृवाचिनश्च ऽअप्तृन्तृच्ऽ इति सर्वनामस्थाने दीर्घविधानादसारूप्यादेकशेषाभावः । अत्र पक्षे एकग्रहणं चिन्त्यप्रयोजनम् । तदेवं पञ्चसु पक्षेषु त्रयः स्वीकृताः । वृक्षश्च वृक्षश्चेति । ऽअनैमितिक एकशेषः ऽ इति पक्षे विभक्तौ सारूप्यं दर्शयितुं विभक्त्यन्तेन विग्रहः । कथं पुनर्विग्रहः, यावता एकशेषवृत्तिर्नित्या ? नैतद्वृत्या समानार्थवाक्यम्, प्रत्येकमत्र विवक्षा । आतश्च प्रत्येकम्; यतोऽत्र भेदनिबन्धेन समुच्चयश्चशब्देन द्योत्यते, भिन्नार्थमपि किञ्चिन्मात्रासाधर्म्याद्वाक्यं भवत्येव । समानार्थन्तु बाध्यत एव, यथा-वृक्षौ च वृक्षौ वृक्षाश्च वृक्षाश्च वृक्षा इति । ननु यद्येतावदेकार्थाभिनिवेशिनः शब्दाः - आकाशद्रव्यत्वगोत्वादयः, न तेषु द्विवचनबहुवचनेनाप्येकशेषः; ये त्वनेकार्थाभिनिवेशिनः - गौः शुक्लः, पाचक इत्यादयः, तेष्वनुस्यूतं किञ्चिदर्थगतमेकं गोत्वादिनिमितं वक्तव्यम्; अन्यथा सम्बन्धग्रहणासम्भवादत्र गवादिषु तद्गुणता जातिर्निमितं न, यथा शुक्लादिष्वपि गुणमात्रनिष्ठषु । गुणनिष्ठेषु तु स्वगतया जात्या एकीभूतो गुणः । एवं पाचकादिष्वपि गोत्वाश्वत्वे सामान्ये, निः साम्यानि सामान्यानीत्यत्र भिन्नेष्वभिन्नप्रत्ययहेतुत्वं तावेतावित्यादौ परोक्षत्वप्रत्यक्षत्वादिकम् । अभावाश्चत्वार इत्यत्र निरूपाख्यत्वमित्यादि सर्वत्र द्रष्टव्यम् । निमिततद्वतोश्च तादात्म्यम्, सर्वं हि वस्तु एकं नाना च गवादिरूपेणैकं खण्डादि प्रातिपदिकरूपेण नाना । एवं स्थिते यदि तावज्जातिरेव शब्दार्थस्तदा तस्या एकत्वान्नानेकशब्दप्रसङ्गः । अथाप्युभयम्, एवमपि जातिरूपेणैव शब्दो द्रव्यमभिधते न प्रातिस्विकेनाकारेणेति नास्त्यनेकशब्दप्रसङ्गः । केवलद्रव्यपदार्थपक्षेऽपि अस्मिन्विषयेऽनेकार्थाभिधानसामर्थ्यं शब्दस्य द्व्यादिपदवदभ्युपगन्तव्यम्, अन्यथा सत्यप्येकशेषे तन्न स्यादिति सिद्धमेकशब्दत्वम् । द्रव्यगतसङ्ख्याप्रतिपादनाय द्विवचनबहुवचने भविष्यत; नार्थ एतेनेत्याशङ्क्याह - प्रत्यर्थमित्यादि । एकैकस्मिन्नर्थे यस्माच्छब्दानां निवेशस्ततोऽनेकेन शब्देनानेकस्याभिधानं सिद्ध्यति । तत्रैवं स्थितेऽनेकार्थाभिधाने कर्तव्ये यावन्तस्तेऽर्थास्तावतां शब्दानां प्रयोगः प्राप्नोति, इष्यते चैकशब्दत्वम्, तस्मादेकशेष आरभ्यते । अयमभिप्रायः - केवलं जातिपक्षे अक्षाः पादाः माषा इत्यादौ अनेकशब्दत्वं स्याद्, न हि बिभीतकदेवनशकटाक्षेष्वनुस्यूतं किञ्चित्सामान्यमस्ति । अत एव तत्र व्युत्पत्तिर्भेदेनापेक्ष्यते, एवमुभयपक्षेऽपि । केवलद्रव्यपक्षेऽपि वृक्षश्चेति वाक्येऽनेकशब्ददर्शनाद्विरूपेषु द्वन्द्वदर्शनाच्चारम्भणीयमेतदिति । रूपग्रहणं किमिति । अन्तरङ्गत्वादहेयत्वादुपदेशानपेक्षत्वाच्च रूपकृतमेव समानत्वं ग्रहीष्यते इति प्रश्नः । प्रतिपतिलाघवं च समानानामित्युच्यमाने भवति रूढिशब्दत्वेन रूढिरिति तुल्यार्थावगमात् । रूपग्रहणे तु वर्तिपदार्थमवगम्यान्यपदार्थोऽवगन्तव्य इति गौरवं भवति । भिन्नेऽप्यर्थे इति । ऽस्वं रूपम्ऽ इत्यत्र रूपग्रहणेन ज्ञापितं शास्त्रे रूपवदर्थोऽपि तन्त्रमिति । ततश्चार्थरूपाभ्यां समानत्वं गृह्यएतेति भावः । एकग्रहणं किमिति । शेष इत्येकत्वं विवक्ष्यत इति प्रश्नः । द्विबह्वोरिति ।द्वित्वबहुत्वविषयस्यानेकस्य शब्दस्येत्यर्थः । ननु द्वयोर्बहूनां चेति बहुवचनप्रसङ्गाद् इह शेषविधानद्वारेण संस्क्रियमाणत्वाच्छिष्यमाणं प्रधानम्, प्रधाने च सङ्ख्या न विवक्ष्यते, यथा-ग्रहं संमार्ष्टीति, विषम उपन्यासः; संमार्गे विधौ द्वितीयानिर्देशात् ग्रहाः प्रधानभूताः, संमार्गस्तु तेषां संस्कारः । संस्कारो नाम तस्य भवति यच्छास्त्रान्तरे प्रयोजनवत्यां क्रियायां साधनत्वेन विनियुक्तम्, संस्कृतस्य वा यस्य विनियोगः, द्रव्यमात्रस्य रूपसंस्कारोऽनर्थकः स्यात् । यदिह संमार्गसंकारो विधीयमानः शास्त्रान्तरे विनियुक्तं ग्रहमपेक्षते ततर्नवसङ्क्या ग्रहा श्रुता इति तदपेक्षः संमार्गविधिर्नवानामपि भवितुमर्हति । ग्रहमित्येकवचनं तु कर्मत्वमात्रमभिधायकतार्थं भविष्यति । इह तु शेषस्य वाक्यान्तरेऽनवधारणादिदमेवोत्पतिवाक्यामिति विवक्षणीया सङ्ख्या, पशुमालभेतेतिवत्, सत्यम्; इदमेवैकग्रहणं ज्ञापकम्-शास्त्रान्तरानवगतेऽपि प्रधाने सङ्ख्या न विवक्ष्यत इति, तेन कर्तुरीप्सिततममित्यत्र ईप्सिततमस्य सङ्ख्याया अविवक्षा सिद्धा भवति । शेषग्रहणं किमिति । साध्वनुशासनप्रक्रमात्सरूपाणामेकः साधुर्भवतीति विज्ञास्यत इति भावः । आदेशो मा भूदिति । असति हि शेषग्रहणे ऽषष्ठी स्थाने योगाऽ इति वचनात् स्थानषष्ठी स्यात्, ततश्चादेशः स्याद्, अस्तु; शब्दतोऽर्थतश्चान्तरतमो भविष्यति ? नैवं शक्यम्, स्वरे हि दोषः स्याद् द्वयोरश्वशब्दयोः समुदायः स्थानी, तत्र च द्वावुदाताविति द्व्युदात आदेशः स्यादेतेन द्व्यनुदातत्वं व्याख्यातम् । एकविभक्ताविति किमिति । नानाविभक्तौ वैरूप्यमवश्यंभावीति भावः । पयः पय इति । एकविभक्तावित्यस्मिन्नसति सरूपाणां सर्वत्र सह प्रयोगो न स्याद् । अथ क्रियमाणेऽप्यस्मिन्ननैमितिकपक्षे कस्मादेवात्र न भवति, एतदपि ह्यएकस्यां विभक्तौ परतः सरूपं दृष्टमेव ? नैष दोषः; एकग्रहणमस्मिन्पक्षे अतिरिच्यत इत्युक्तम्, तत्सामर्थादेकस्यामेव विभक्तौ विषयभूतायां भविष्यति । अत्र तु सत्येकशेषे पर्यायेण विभक्तिः स्यात् । अथ वा-किं न एतेन पक्षेण क्लेशतो व्याख्येयेन ? स्तां द्वावेव पक्षौ ? इह एकश्चेति सङ्ख्याश्बदानामेकशेषो न भवति, अनिभिधानाद् । विंशत्यादीनां तु भवत्येव ॥