विशाखयोश्च

1-2-62 विशाखयोः च अन्यतरस्याम् नक्षत्रे छन्दसि एकवचनम्

Kashika

Up

index: 1.2.62 sutra: विशाखयोश्च


छन्दसि इति वर्तते। द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति। विशाखं नक्षत्रम् इन्द्राग्नीं देवता। विशाखे नक्षत्रम् इन्द्राग्नी देवता।

Siddhanta Kaumudi

Up

index: 1.2.62 sutra: विशाखयोश्च


प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥

Laghu Siddhanta Kaumudi

Up

index: 1.2.62 sutra: विशाखयोश्च


सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥