1-2-62 विशाखयोः च अन्यतरस्याम् नक्षत्रे छन्दसि एकवचनम्
छन्दसीति वर्तते, द्विवचने प्राप्ते छन्दसि विषये विशाखयोरेकवचनमन्यतरस्यां भवति। वि॑शाखा न॑क्षत्रमिन्द्राग्नी॑ देव॑ता (मै०सं० २.१३.२०)। विशा॑खे॒ नक्ष॑त्रमिन्द्रा॒ग्नी दे॑वता॑ (तै०सं० ४.४.१०.२)॥
प्राग्वत् । विशाखा नक्षत्रम् । विशाखे वा ॥
सनः पूर्वो यो धातुस्तेन तुल्यं सन्नन्तादप्यात्मनेपदं स्यात्। एदिधिष्यते॥