1-2-61 छन्दसि पुनः वस्वोः एकवचनम् अन्यतरस्याम् द्वयोः च नक्षत्रे
अन्यतरस्यामित्यनुवर्तते। द्वयोर्द्विवचने प्राप्ते पुनर्वस्वोश्छन्दसि विषय एकवचनमन्यतरस्यां भवति। पु॑नर्वसुर्न॑क्षत्रम॑दितिर्देव॑ता (मै०सं० २.१३.२०)। पुन॑र्वसू॒ नक्ष॑त्र॒मदि॑तिर्दे॒वता॑ (तै०सं० ४.४.१०.१)। नक्षत्र इत्येव — पुनर्वसू माणवकौ। छन्दसीति किम्? पुनर्वसू इति॥
द्वयोरेकवचनं वा स्यात् । पुनर्वसु नक्षत्रं पुनर्वसू वा । लोके तु द्विवचनमेव ॥
द्वयोर्द्विवचने प्राप्त इति । पूर्वसूत्रे चानुकृष्टस्य द्वयोरित्यस्येहाननुवृतावपि पुनर्वसुशब्देनोद्भूतावयवभेदस्य ज्योतिर्द्वयस्य समुदायस्याभिधानाद् द्वयोरेवायं विधिरिति दर्शयति ॥