कालोपसर्जने च तुल्यम्

1-2-57 कालोपसर्जने च तुल्यम् तदशिष्यं अर्थस्य अन्यप्रमाणत्वात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

अशिष्यमिति वर्तते। कालोपसर्जने चाशिष्ये। कस्मात्? अर्थस्यान्यप्रमाणत्वात्। तुल्यशब्दो हेत्वनुकर्षणार्थः। अशिष्यविशेषणं चैतत्। कालोपसर्जने च तुल्यमशिष्ये भवतः। इहान्ये वैयाकरणाः कालोपसर्जनयोः परिभाषां कुर्वन्ति — आ न्याय्यादुत्थानादा न्याय्याच्च संवेशनात् — एषोऽद्यतनः कालः। अपरे पुनराहुः — अहरुभयतोऽर्धरात्रम् — एषोऽद्यतनःकाल इति। तथोपसर्जनपरिभाषां कुर्वन्ति — अप्रधानमुपसर्जनमिति। तत् पाणिनिराचार्यः प्रत्याचष्टे लोकतोऽर्थावगतेः। यैरपि व्याकरणं न श्रुतम्, तेऽप्याहुः — इदमस्माभिरद्य कर्तव्यमिदं श्वः कर्तव्यमिदं ह्यः कृतमिति। नैवं व्युत्पाद्यन्ते। तथोपसर्जनं वयमत्र गृहे ग्रामे वा। उपसर्जनमप्रधानमिति गम्यते। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन। यद्येवं पूर्वसूत्र एव कालोपसर्जनग्रहणं कस्माद् न क्रियते? किमर्थो योगविभागः? प्रदर्शनार्थः। अन्यदप्येवंजातीयकमशिष्यमिति। तथा च पूर्वाचार्याः परिभाषन्ते — मत्वर्थे बहुव्रीहिः, पूर्वपदार्थप्रधानोऽव्ययीभावः, उत्तरपदार्थप्रधानस्तत्पुरुषः, उभयपदार्थप्रधानो द्वन्द्व इत्येवमादि, तदशिष्यमिति॥

Siddhanta Kaumudi

Up

अतीताया रात्रेः पश्चार्धेनागामिन्याः । पूर्वार्धेन य सहितोदिवसोऽद्यतनः । विशेषणमुपसर्जनमित्यादिपूर्वाचार्यैः परिभाषितं तत्राप्यशिष्यत्वं समानम् । लोकप्रसिद्धेः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<कालोपसर्जने च तुल्यम्>> - कालोपसर्जने च । कालश्च उपसर्जनं चेति समाहारद्वन्द्वाद्विषयसप्तमी ।अशिष्य॑मित्यनुवृत्तं भावप्रधानमाश्रीयते । कालविषये उपसर्जनविषये च यत्पूर्वाचार्याणां विशेषवचनं, तत्राप्यशिष्यत्वं समानमित्यर्थः । तद्विशेषवचनं विशदन्यञ्याचष्टे-अतीताया इत्यादिना ।

Padamanjari

Up

अर्थस्यान्यप्रमाणत्वादिति । कथं पुनरयमत्र हेतुर्लभ्यत इत्याह-तुल्यशब्दो हेत्वनुकर्षणार्थ इति कथमेतदित्याह - अशिष्यविशेषणं चैतदिति । चशब्दो हेतौ । आन्याय्यादिति । रात्रेश्चतुर्द्धा विभक्तायाः पश्चिमे यामे न्याय्यं स्वापादुत्थानम्; शास्त्रीयत्वात् । प्रथमे गते च संवेशनं शयनम् । अत्र लक्षणे रात्रेर्मध्ययामद्वयं नाद्यतनम्, द्वितीये तु तदपि । उभयतोऽर्द्धरात्रमिति । बहुव्रीहिः कृत्स्नो दिवस आगामिन्या रात्रेः पूर्वार्धेनातीतायाः पश्चिमार्घेन च युक्त इत्यर्थः । यद्येवमिति । यद्यर्थस्यान्यप्रमाणत्वादित्ययमेवात्रापि हेतुरित्यर्थः । पूर्वसूत्र एवेति । एवं हि तुल्यमिति न वक्तव्यं भवतीति भावः ॥