1-2-56 प्रधानप्रत्ययार्थवचनम् अर्थस्य अन्यप्रमाणत्वात् तदशिष्यं
अशिष्यमिति वर्तते। प्रधानं समासे किंचित् पदम्, प्रत्ययस्तव्यदादिः, ताभ्यामर्थवचनमर्थाभिधानमनेन प्रकारेण भवतीति पूर्वाचार्यैः परिभाषितम् — प्रधानोपसर्जने प्रधानार्थं सह ब्रूतः, प्रकृतिप्रत्ययौ सहार्थं ब्रूत इति। तत् पाणिनिराचार्यः प्रत्याचष्टे। अशिष्यमेतत्, अर्थस्यान्यप्रमाणत्वादिति। अन्य इति शास्त्रापेक्षया लोको व्यपदिश्यते। शब्दैरर्थाभिधानं स्वाभाविकं न पारिभाषिकम्, अशक्यत्वात्, लोकत एवार्थावगतेः। यैरपि व्याकरणं न श्रुतं तेऽपि राजपुरुषमानयेत्युक्ते राजविशिष्टं पुरुषमानयन्ति,न राजानं नापि पुरुषमात्रम्। औपगवमानयेत्युक्त उपगुविशिष्टमपत्यमानयन्ति, नोपगुं नाप्यपत्यमात्रं नोभौ। यश्च लोकतोऽर्थः सिद्धः किं तत्र यत्नेन॥
प्रत्ययार्थः प्रधानमित्येवंरूपं वचनमप्यशिष्यम् । कुतः, अर्थस्य लोकत एव सिद्धेः ॥
<<प्रधानप्रत्ययार्थवचनमर्थस्यान्यप्रमाणत्वात्>> - अथ प्रसङ्गादन्यदपि पूर्वाचार्यपरिभाषितं निराचष्टे — प्रधानप्रत्ययार्थ । प्रत्ययार्थ इति ।प्रकृत्यर्थं प्रति प्रत्ययार्थः प्रधानं=विशेष्यम्, प्रकृत्यर्थस्तु तद्विशेषण॑मित्येवं यत्पूर्वाचार्यवचनं तदपीत्यर्थः ।
अर्थवचनमिति । कर्मणि षष्ठयाः समासः । ननु च प्रधानप्रत्यययोः कर्त्रोर्निर्देशादुभयप्राप्तावित्यनेनात्र षष्ठी, ततश्च ऽकर्मणि चऽ इति निषेधः प्राप्नोति, नैष दोषः ; प्रधानप्रत्ययोरत्र करणत्वं विवक्षितम् । कस्तर्हि कर्ता, पुरुषः, समुदायो वा प्रधानोपसर्जनयोः प्रकृतिप्रत्यययोश्च ? एतदुक्तं भवति-प्रधानप्रत्ययाभ्यां करणाभ्यां पुरुषेण समुदायेन वा यदर्थस्य वचनशब्देन सह ऽकर्तृकरणे कृता बहुलम्ऽ, ऽकृद्ग्रहणे गतिकारकपूर्वस्यापि ग्रहणम्ऽ इतिच समासः । ननु च प्रत्ययोऽपि प्रकृत्यपेक्षया प्रधानम्, कस्माद्भेदेनोपादीयते ? उच्यते; यदा ऽप्रकृतिः प्रत्ययार्थं प्रति विशेषणतया स्वार्थमभिधतेऽ इति सिद्धं भवति, तदा प्रत्ययस्य प्राधान्यम्, तदेवेदानीं परिभाष्यत इति पूर्वाचार्यैस्तावत्प्रत्ययो भेदेन निर्दिष्टः-प्रधानोपसर्जने, प्रकृतिप्रत्ययाविति, ततश्च तल्लक्षणनिराकरणे प्रत्ययोऽपि भेदेनोपादेयः । अश्क्यत्वादिति । अशक्यत्वमनन्तप्रकारत्वात् । बहुव्रीहावन्यपदार्थ उच्यते; प्लक्षन्यग्रोधमिति समाहारः; क्वचित्प्रधानयोरेव सहाभिधानम्-प्लक्षन्यग्रोधाविति । स्वार्थिकेषु च पप्रकृतिप्रत्ययौ प्रकृत्यर्थं सह ब्रूतः-शुक्लतर इति; तथा आख्यातेषु क्रियाप्रधानमाख्यातमिति; तथा ऽकर्तरि कृत्ऽ ऽकर्तरि तृतीयाऽ, तत्र ऽकृत्सु शक्तिमद् द्रव्यं प्रधानमुच्यतेऽ इति क्रियाभेदे शक्त्यन्तराविर्भावः; पाचकं पश्येति विभक्तिषु शक्तिप्राधान्यम्-इत्याद्यनन्तप्रकारमर्थाभिधानमशक्यं परिभाषितुमिति लोकत एवार्थावगतेः कथमेतदित्याह-यैरपीत्यादि ॥