योगप्रमाणे च तदभावेऽदर्शनं स्यात्

1-2-55 योगप्रमाणे च तदभावे अदर्शनं स्यात् तदशिष्यं

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पञ्चालादयः संज्ञाशब्दाः, न योगनिमित्ता इत्युक्तम्, तच्चावश्यमेवाभ्युपगन्तव्यम्। योगप्रमाणे हि तदभावेऽदर्शनं स्यात्। यदि पञ्चालादिशब्दो योगस्य प्रमाणं योगस्य वाचकः स्यात्, ततस्तदभावेऽदर्शनमप्रयोगः स्यात्। दृश्यते च संप्रति विनैव क्षत्रियसंबन्धेन जनपदेषु पञ्चालादिशब्दः, ततोऽवसीयते नायं योगनिमित्तकः। किं तर्हि? रूढिरूपेणैव तत्र प्रवृत्त इति॥

Siddhanta Kaumudi

Up

यदि हि योगस्यावयवार्थस्येदं बोधकं स्यात्तदा तदभावे न दृश्येत ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<योगप्रमाणे च तदभावेऽदर्शनं स्यात्>> - प्रत्ययस्वीकारे बाधकमाह — योगप्रमाणे च । पञ्चालाऽङ्गवङ्गादिशब्देषु योगस्य=अवयवार्थस्य प्रमापकत्वे सति तदभावे=पञ्चालाङ्गादिक्षत्रियसम्बन्धाऽभावे संप्रति शूद्रादिराजके जनपदे पञ्चालादिशब्दो न प्रयुज्यते, प्रयुज्यते च यतः, अतः पञ्चालादिशब्दा जनपदविशेषेषु केवरूढा इति युक्तमित्यर्थः । तदाह-यदि हि योगस्येति ।

Padamanjari

Up

पञ्चालादय इत्यादि । पूर्वयोगस्याप्रतिभास उक्तः, यस्तु तमपजानीते तं प्रत्यनेनानिष्टमापद्यत इति दर्शयति-योगप्रमाणे हीति । ऽहिऽ शब्दो हेत्वर्थे प्रयुञ्जानः सूत्रे ऽचऽ शब्दो हेतौ प्रयुक्त इति दर्शयति । एतदेव व्याचष्टे-यदीति, अदर्शनमयोगः चस्यादिति । दर्शनं ज्ञानं तच्च प्रयोगस्योच्चारणस्य फलम्, अतः फलाभावेन हेत्वभावो विवक्षित इत्याचष्टे । योगनिमितको हि योगाभावेन प्रदर्शनं युज्यते, यथा-दण्डीशब्द इति भावः । ननु भूतपूर्वमपि निमितं भवति, ततश्च सम्प्रति वरणादियोगाभावेऽपि भूतपूर्वः स एव निमितं भविष्यति, नैतदेवम्; भूतपूर्वनिमितो हि व्यपदेशो गौणः स्याद्, न चायं गौणः; पदान्तरस्य प्रयोगमन्तरेणाऽपि प्रतीयमानत्वात् । किञ्च यौगिकत्वे पुरुषान्तरसंबंधनिबंधनोऽपि व्यपदेशः कस्मान्न प्रवर्तते ? विपर्ययो वा कस्मान्न भवति ? देशसम्बन्धाद्राजसु पञ्चालशब्द इत्यतोऽक्षादिशब्दवदनेकार्थ एवायं पञ्चालादिशब्दः ॥