1-2-54 लुप् योगाप्रख्यानात् तदशिष्यं
लुबप्यशिष्यः योऽयं <<जनपदे लुप्>> (४.२.८१) <<वरणादिभ्यश्च>> (४.२.८२) इति लुबुच्यते, अयं न वक्तव्यः। किं कारणम्? योगाप्रख्यानात्। न हि पञ्चाला वरणा इति योगः संबन्धः प्रख्यायते। नैतदुपलभामहे वृक्षयोगाद् नगरे वरणा इति। किं तर्हि? संज्ञा एताः। तस्मादत्र <<तस्य निवासः>> (४.२.६९) <<अदूरभवश्च>> (४.२.७०) इति तद्धितो नैवोत्पद्यते, किं लुपो विधानेन॥
लुबपि न कर्तव्योऽवयवार्थस्येहाप्रतीतेः ॥
<<लुब्योगाप्रख्यानात्>> - एवंच सुवपि न विदे इत्याह — लुव्योगाप्रख्यानात् ।अशिष्य॑मित्यनुवृत्तं पुंलिङ्गेन तविपरिणतंलु॑वित्यनन्तरं संबध्यते । तदाह — लुबपि न कर्तव्य इति । योगः=अवयवार्थः, तस्य — अप्रख्यानात्प्रतीतेरित्यर्थः । तदाह — अवयवेति । नहि पचालाङ्गवङ्गादिसंबन्धित्वेन पञ्चाला अङ्गा वङ्गा इत्यादितो बोधः, अतः प्रत्यय एव तत्र नास्तीति भावः ।
किं कारणमिति । ऽनिमितकारणहेतुषु सर्वासां प्रायदर्शनम्ऽ इति प्रथमा द्वितीया वा । तथा च योगाप्रख्यानादित्युतरोपपतिः । योगःउजनपदादेः क्षत्रियादिभिः सम्बन्धः, तस्याप्रख्यानादनुपलब्धेरित्यर्थः । तदाह - न हीति । एतदेव विवृणोति-नैतदिति, संज्ञा एता इति । यद्यपि संज्ञाशब्दा अपि पङ्कजादयोऽपेक्षितप्रवृत्तिनिमिताः सन्ति, तथापीह प्रकरणादनेपेक्षितप्रवृत्तिनिमिता अपीति बोद्धव्यम् । अत एवाह-तस्मादत्रेत्यादि । ननु योगाप्रख्यानेऽपि तद्धित उत्पद्यते, तद्यथा - ऽकम्बलाच्च संज्ञायाम्ऽ कम्बल्यमूर्णापलशतमिति, सत्यम्; यत्र रूपे विशेषोऽस्ति । ननु च संज्ञाप्रमाणत्वादिति पञ्चालादिशब्दानामयौगिकत्वमुपपादितमित्यर्थाल्लुबपि प्रत्याख्यात् एव, किमनेन क्रियते ? उच्यते; संज्ञाप्रमाणत्वादित्यनेन दृष्टान्तगतो हेतुः शब्देनोक्तः तस्यैव त्वर्थात्पञ्चालादिगतत्वेन प्रतीयमानस्यासिद्धिमाशङ्कय योगाप्रख्यानादिति यौगिकत्वामपाकुर्वन् हेतुमेव समर्थयते ॥