तदशिष्यं संज्ञाप्रमाणत्वात्

1-2-53 तदशिष्यं संज्ञाप्रमाणत्वात्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

तदिति प्रकृतं युक्तवद्भावलक्षणं निर्दिश्यते। तदशिष्यम्, न वक्तव्यम्। कस्मात्? संज्ञाप्रमाणत्वात्। संज्ञाशब्दा हि नानालिङ्गसंख्याः प्रमाणम्। पञ्चाला वरणा इति च। नैते योगशब्दाः। किं तर्हि? जनपदादीनां संज्ञा एताः। तत्र लिङ्गं वचनं च स्वभावसिद्धमेव न यत्नप्रतिपाद्यम्। यथा — आपो दाराः गृहाः सिकता वर्षा इति॥

Siddhanta Kaumudi

Up

युक्तवद्वचनं न कर्तव्यं संज्ञानां प्रमाणत्वात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<तदशिष्यं संज्ञाप्रमाणत्वात्>> - तदेतत्पूर्वाचार्यसूत्रं पाणिनिः प्रत्याचष्टे — तदशिष्यं । यथा 'दाराः' इत्यादौ शास्त्रीयपुंस्त्वविशिष्टस्यैव स्त्रीरूपार्थस्य भानं, तथा लुपि सति शास्त्रीयप्रकृत्यर्थगतलिङ्गसङ्ख्याविशिष्टस्यैव स्वार्थस्य सोकव्यवहारादेव भानं संभवति, न तु तदंशे शास्त्रव्यापारापेक्षेति भावः । संज्ञानामिति । लोकव्यवहाराणामित्यर्थः ।

Padamanjari

Up

संज्ञाप्रमाणत्वादिति । प्रमाणानाÄ हि प्रमाणत्वं प्रतिपादकत्वं स्वार्थप्रत्यायनलक्षणम् । एतच्च सर्वेषामेव शब्दानामस्ति, न संज्ञाशब्दानामेव । उच्यते चेदं तत्र विशेषो विज्ञायत इत्याह - संज्ञाशब्दा हीत्यादि । ये संज्ञाशब्दास्ते नानालिङ्गसंख्या अपि स्वाभिधेयगतलिङ्गसंख्यापेक्षया भिन्नलिङ्गसंख्या अपि प्रमाणम्, स्वार्थस्य प्रतिपादका इत्यर्थः । भवतु संज्ञाशब्दानामेवंविधं प्रमाणत्वम्, किमायातं यौगिकानां पञ्चालादिशब्दानामित्य आह-पञ्चाला वरणा इत्यादि । तदनेन पक्षधर्मत्वं हेतोरुक्तम्, पूर्वं तु दृष्टान्तगतो हेतुर्व्याख्यातः । दृष्टान्तमाह - यथेति । युक्तवद्भावमारभमाणोऽपि नात्र कञ्चिद्यत्नं करोति, तदवश्यमयं शब्दस्वभाव एवाश्रयणीयः । कश्चिद्धि शब्दः स्वभावात् समुदायसंख्यामभिधते, कश्चिदवयवसंख्याम्, यथा-वनं वृक्षा इति । एवं लिङ्गेऽपि द्रष्टव्यम् ॥