विशेषणानां चाजातेः

1-2-52 विशेषणानां च अजातेः लुपि युक्तवत् व्यक्तिवचने

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

लुपीति वर्तते। लुबर्थस्य यानि विशेषणानि तेषामपि च युक्तवद् व्यक्तिवचने भवतो जातिं वर्जयित्वा। पञ्चालाः रमणीयाः बह्वन्नाः बहुक्षीरघृताः बहुमाल्यफलाः। गोदौ रमणीयौ बह्वन्नौ बहुक्षीरघृतौ बहुमाल्यफलौ। अजातेरिति किम्? पञ्चालाः जनपदः। गोदौ ग्रामः। जात्यर्थस्य चायं युक्तवद्भावप्रतिषेधः। तेन जातिद्वारेण यानि विशेषणानि तेषामपि युक्तवद्भावो न भवति। पञ्चालाः जनपदो रमणीयो बह्वन्नः। गोदौ ग्रामो रमणीयो बह्वन्न इति॥ मनुष्यलुपि प्रतिषेधो वक्तव्यः॥ चञ्चाभिरूपः। वर्धिर्का दर्शनीयः॥

Siddhanta Kaumudi

Up

लुबर्थस्य विशेषणानामपि तद्वल्लिङ्गवचने स्तो जातिं वर्जयित्वा । पञ्चाला रमणीयाः गोदौ रमणीयौ । अजातेः किम् । पञ्चाला जनपदः । गोदौ ग्रामः ।<!हरीतक्यादिषु व्यक्तिः !> (वार्तिकम्) ॥ हरीतक्याः फलानि हरीतक्यः ॥<!खलतिकादिषु वचनम् !> (वार्तिकम्) ॥ खलतिकस्य पर्वतस्यादूरभवानि खलतिकं वनानि ।<!मनुष्यलुपि प्रतिषेधः !> (वार्तिकम्) ॥ मनुष्यलक्षणे लुबर्थे विशेषणानां न, लुबन्तस्य तु भवतीत्यर्थः । चञ्चा अभिरूपः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<विशेषणानां चाजातेः>> - विशेषणानां चाजातेः । कस्य विशेषणानामित्याकाङ्क्षायां लुबित्यनुवृत्तं षष्ठआ विपरिणतं संबध्यते । लुप्तप्रत्ययार्थस्येति लभ्यते । तदाह — लुबर्थस्येति । तद्वदिति । प्रकृतिवदित्यर्थः ।लुपि युर्तवद्व्यक्तिवचने॑ इत्यस्मादुत्तरं पठितमिदं सूत्रं तत्रैव व्याख्यातुमुचितम् । पञ्चाला रमणीया इति । पञ्चालानां निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदं प्रति विशेषणस्यापि रममीयशब्दस्य प्रकृतिवद्बहुवचनम् । गोदौ रमणीयाविति । गोदयोर्निवासो जनपद इत्यर्थः । अत्र प्रत्ययार्थजनपदस्य तद्विशेषणस्यापि प्रकृतिवद्द्विवचनम् । पञ्चाला जनपद इति । जनपदशब्दस्य जातिवाचित्वान्न प्रकृतिवद्बहुवचनम् । गोदौ ग्राम इति । अत्र ग्रामशब्दस्य जातिवाचित्वान्न प्रकृतिवद्द्विवचनम् । हरीतक्यादिषु व्यक्तिरिति । वार्तिकमिदम् ।लुपि लिङ्गं प्रकृतिवद्भवति, न तु वचन॑मिति शेषः । हरीतक्य इति ।हरीतक्यादिभ्यश्चे॑ति विकारप्रत्ययस्य लुप् । अत्र प्रत्ययार्थेषु फलेषु प्रकृतिवत्स्त्रीलिङ्गमेव भवति, न त्वेकवचनमिति भावः ।खलतिकादिषु । वार्तिकमिदम् । एषु लुपि प्रकृतिवद्वचनमेव भवति, नतु लिङ्गमित्यर्थः । खलतिकं वनानीति ।वरणादिभ्यश्चे॑ति लुप् । अत्र खलतिकशब्दस्य लुप्तप्रत्ययान्तस्य प्रकृतिवत्पुंलिङ्गत्वं न भवति, किन्तु एकवचनमेवेति भावः । मनुष्यलुपि प्रतिषेध इति । वार्तिकमिदम् ।मनुष्यलक्षणे इति । मनुष्यात्मके लुप्तप्रत्ययार्थे यानि विशेषणानि तेषां प्रकृतिवल्लिङ्गवचनप्रतिषेध इत्यर्थः । चञ्चा अभिरूप इति । चञ्चा तृणमयी प्रतिमा, तत्सदृशो मनुष्यश्चञ्चा । 'इवे प्रतिकृतौ' इत्यधिकारेसंज्ञाया॑मिति कनो 'लुम्मनुष्ये' इति लुप् । अत्र लुप्तप्रत्ययान्तस्य चञ्चाशब्दस्य मनुष्ये वाच्ये प्रकृतिलिङ्गत्वं, न तु तद्विशेषणस्याऽभिरूपशब्दस्येति भावः । इति युक्तवद्भावप्रकरणम् ।

Padamanjari

Up

पूर्वं प्रकृत्यर्थगतयोर्लिङ्गसङ्ख्ययोर्लुबर्थेऽतिदेशः कृतः, न तु लुबन्ते शब्दे इति तत्र वर्तमानानां विशेषणानां सिद्ध एव युक्तवद्भावः । वचनं तु जातिप्रतिषेधार्थम् । अथ व्यधिकरणानां विध्यर्थं कस्मान्न भवति, ब्रह्मदतस्य पञ्चाला इति ? ऽतत्पुरुषः समासनाधिकरणःऽ इत्यतः समानाधिकरणानुवृतेः । गोदाविति । गोदौ हृदौ वरणादिः, ग्रामजनपदशब्दौ जातिवाचिनौ ताभ्यां लुबर्थो जातिरूपेणोच्यते । जात्यर्थस्य चेत्यादि । जातिरूपस्य चार्थस्य, न जातिवाचिनः शब्दस्येत्यर्थः । तेन किं सिद्धं भवतीत्याह - तेनेति । द्वारग्रहणेनैतद्दर्शयति - जातौ प्रक्रान्तायां यद्विशेषणमुपनिपतितं तज्जातिमेव साक्षाद्विशिनष्टि, तद्द्वारेण तु लुबर्थो विशिष्टः प्रतीयते; तत्र विशेषणविषेष्यभावं प्रति कामचार इति रमणीयादीनां जात्युपनिपाते युक्तवद्भावो न भवति; लुबर्थो पनिपाते तु भवति । यद्येवम्, नार्थोऽनेन, लुपोऽन्यत्राप्ययं प्रकारो दृष्टः, यथा - बदरी सूक्ष्मकण्टका मधुरावृक्ष इति, मधुरादीनां बदर्युपनिपाते तल्लिङ्गसङ्ख्यायोगः, वृक्षोपनिपाते वृक्षलिङ्गसङ्ख्योगः, वृक्षस्य च नियतलिङ्गत ? एवं तर्हि यतत्रतत्रोच्यते - गुणवचनानां हि शब्दानां नाश्रयतो लिङ्गवचनानि भवन्तीति, तदनेन क्रियते । विशेषणानां गुणवचनानामित्यर्थः । युक्तवद्व्यक्तिवचने । आश्रयवल्लिङ्गसंख्ये इत्यर्थः । यदा तु जातिविशेषणं तदा नेति । पदसंस्कारपक्षे च वाचनिकमेतत्; पदे हि पदान्तरनिरपेक्षे संस्क्रियमाणे लिङ्गसर्वनामनपुंसकं वस्त्वन्तरानपेक्षमेकत्वं च प्राप्तमिति शुक्लं पटा इति प्राप्ते भाविनो बहिरङ्गस्याश्रयस्य लिङ्गसंख्ये विधीयेते । वाक्यसंकारे त्वयमनुबाद एव; आश्रयविशेषणिष्ठत्वेन विशेषणानामपि तल्लिङ्गसंख्ययोरसिद्धत्वात् । मनुष्यलुपीति । मुनष्यलक्षणे लुबर्थे विशेषणानां प्रतिषेधः । लुबन्तस्य तु भवत्येव-चञ्चाभिरूप इति, तृणपुरुषश्चञ्चा तत्सदृशो मनुष्यश्चञ्चा ऽसंज्ञायाम्ऽ इति कन्, ऽलुम्मनुष्येऽ इति लुप् । चर्मविकारविशेषो वर्घ्रिका ॥