इद्गोण्याः

1-2-50 इत् गोण्याः तद्धितलुकि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

पूर्वेण लुकि प्राप्त इकारो विधीयते। गोण्यास्तद्धितलुकि सतीकारादेशो भवति। पञ्चभिर्गोणीभिः क्रीतःपटः पञ्चगोणिः। दशगोणिः। इदिति योगविभागः। पञ्चभिः सूचीभिः क्रीतः पञ्चसूचिः। दशसूचिः। स च एवंविषय एव॥

Siddhanta Kaumudi

Up

गोण्या इत्स्यात्तद्धितलुकि । लुकोऽपवादः । पञ्चभिर्गोणीभिः क्रीतः पटः पञ्चगोणिः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<इद्गोण्याः>> - इद्गोण्याः । लुकोऽपवाद इति ।लुक्तद्धितलुकी॑ति प्राप्तस्येत्यर्थः । पञ्चगोणिरिति । आर्हीयस्य ठको लुकि स्त्रीप्रत्ययस्य इकारः । नच उपसर्जनह्रस्वत्वेनैव इदं सिद्धमिति वाच्यम्, इत्त्वविध्यभावेसुक्तद्धितलुकी॑ति ङीषो निवृत्तावदन्तत्वाट्टापि पञ्चगोणेत्यापत्तेः । मूलद्रव्यवाचिन एव तृतीयान्तात्क्रीतार्थे प्रत्यया भवन्ति, नतुदेवदत्तेन क्रीत॑मित्यर्थे, अनभिधानादिति भाष्ये स्पष्टम् ।

Padamanjari

Up

पञ्चगोणिरिति । गोणिशब्दः परिमाणवचनः, आवपनवचनश्च; तत्राद्यात् ऽप्राग्वतेष्ठञ्ऽ, द्वितीयादार्हीयष्ठक् । तयोः पूर्वल्लुक् । इदिति योगाविभाग इति । इहेद्ग्रहणमनर्थकम्, गोण्या इत्येवास्तु, ह्रस्व इत्येव, लुकस्तु वचनासामर्थ्यादननुवृत्तिः ? तदेतदिद्ग्रहणमेव लिङ्गं योगविभागस्य । यदि योगविभागः क्रियते, सर्वत्रेत्वं प्राप्नोति, तत्राह-स चेति । यदि सर्वत्र स्याद् गोणीग्रहणमनर्थकं स्यादिति भावः । ननु तद्धितलुकि लुगप्युक्तः, इत्वं चेति, तयोर्विकल्पप्रसङ्गे नित्यमित्वमेव यथा स्यादित्येवमर्थं गोणीग्रहणं स्यात्, तत्कर्थं ततो विशिष्टविषयत्वं योगविभागस्य ? उच्यते; एक एव तावद्योगः सूत्रकारेण पठितः, तत्सामर्थ्याद् विभागसंस्कारोऽप्यनुवर्तते, अविभक्तश्च योगो विशिष्टविषयः । इद्ग्रहणसामर्थ्यात्क्रियमाणो विभागो विशिष्टविषय एव कल्प्यते; अत एवोच्यते - योगविभागादिष्टसिद्धरिति । स पुनर्विशिष्टो विषयो व्याख्यानादवसेयः । तपरकरणं तत्कालार्थम् - दीर्घस्य दीर्घो मा भूद् । वचनं तु लुग्घ्रस्वबाधनार्थं स्याद् । असति च तकारे, प्राप्तप्रतिषिद्ध ईकार एवं प्रतिप्रसूतः स्याद्, न त्वपूर्व इकारो विहितः स्याद् इति भाव्यमानत्वमेव न स्यात् ॥