1-2-39 स्वरितात् संहितायाम् अनुदात्तानाम् एकश्रुति
एकश्रुतिरिति वर्तते। संहितायां विषये स्वरितात् परेषामनुदात्तानामेकश्रुतिर्भवति। इ॒मं मे॑ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि (ऋ० १०.७५.५)। माण॑वक जटिलकाध्यापक॒ क्व॑ गमिष्यसि। इममित्यन्तोदात्तम्, मे इत्यनुदात्तम्, विधिकाल एव निघातविधानात्। तत्पुनर् <<उदात्तादनुदात्तस्य स्वरितः>> (८.४.६६) इति स्वरितं संपद्यते। तस्मात् स्वरितात् परेषामनुदात्तानां गङ्गेप्रभृतीनामेकश्रुतिर्भवति। सर्व एत आमन्त्रितनिघातेनानुदात्ताः। माणवक जटिलकेति प्रथममामन्त्रितमाद्युदात्तं तस्य द्वितीयमक्षरं स्वरितम्, ततः परेषामनुदात्तानामेकश्रुतिर्भवति। संहिताग्रहणं किम्? अवग्रहे मा भूत् — इ॒मं। मे॒। ग॒ङ्गे॒। य॒मु॒ने॒। स॒र॒स्व॒ति॒ (ऋ० १०.७५.५)।
स्वरितात्परेषामनुदात्तानां संहितायामेकश्रुति स्यात् । इमं मे गङ्गे यमुने सरस्वति (इ॒मं मे॑ गङ्गे यमुने सरस्वति) ॥