न सुब्रह्मण्यायां स्वरितस्य तूदात्तः

1-2-37 न सुब्रह्मण्यायां स्वरितस्य तु उदात्तः एकश्रुति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सुब्रह्मण्या नाम निगदस्तत्र <<यज्ञकर्मण्य०>> (१.२.३४) इति <<विभाषा छन्दसि>> (१.२.३६) इति चैकश्रुतिः प्राप्ता प्रतिषिध्यते। सुब्रह्मण्यायामेकश्रुतिर्न भवति। यस्तु लक्षणप्राप्तः स्वरितस्तस्योदात्त आदेशो भवति। सुब्रह्मण्यो॒३म् इन्द्रा॒गच्छ, ह॒रिव आ॒गच्छ, मे॒धातिथेर्मेष, वृ॒षणश्वस्य मेने, गौ॒रावस्कन्दिन्न॒हल्यायै जार, कौ॒शिकब्राह्मण गौ॒तमब्रुवाण, श्वः॒ सु॒त्यामा॒गच्छ म॒घवन् (श०ब्रा० ३.३.४.१७ — १९)। अत्र सुब्रह्मण्योमित्योकारस्तित्स्वरेण स्वरितस्तस्योदात्तो विधीयते। इन्द्र आगच्छेत्यामन्त्रितमाद्युदात्तं द्वितीयो वर्णोऽनुदात्तः। <<उदात्तादनुदात्तस्य स्वरितः (८.४.६६) इति स्वरितः प्रसक्तस्तस्यानेनोदात्तः क्रियते । तेन द्वावप्युदात्तौ संपन्नौ। आगच्छेत्याकार उदात्तः। ततः परोऽनुदात्तः स्वरितस्तस्यानेनोदात्तः क्रियते । तदेवमिन्द्र आगच्छेति चत्वार उदात्ताः। पश्चिम एकोऽनुदात्तः। हरिव आगच्छेत्यनयैव प्रक्रियया चत्वार उदात्ता द्वावनुदात्तौ। मेधातिथेरिति षष्ठ्यन्तं परमामन्त्रितमनुप्रविशति। ‘सुबामन्त्रिते पराङ्गवत् स्वरे>> (२.१.२)इति। ततः सकलस्यामन्त्रिताद्युदात्तत्वे कृते द्वितीयमक्षरमनुदात्तम्, तस्य <<उदात्तादनुदात्तस्य स्वरितः>> (८.४.६६) इति स्वरितत्वे प्राप्त इदमुदात्तत्वं विधीयते। तेन द्वावप्युदात्तौ भवतः, श्ोषमनुदात्तम्। वृषणश्वस्य मेने इति समानं पूर्वेण। गौरावस्कन्दिन्निति तथैव द्वे आद्ये अक्षरे उदात्ते, शेषमनुदात्तम्। अहल्यायै जारेति सुबन्तस्यामन्त्रितानुप्रवेशात् तद्वदेव स्वरः। द्वावुदात्तौ, शेषमनुदात्तम्। कौशिकब्राह्मणेति समस्तमामन्त्रितमाद्युदात्तं तत्र पूर्ववद् द्वावुदात्तौ, शेषमनुदात्तम्। एवं गौतमब्रुवाणेति द्वावुदात्तौ, शेषमनुदात्तम्। श्वः सुत्यामागच्छ मघवन्निति श्वःशब्द उदात्तः सुत्यामित्यन्तोदात्तः। <<संज्ञायां समजनिषद०>>(३.३.९९) इति क्यपो विधान उदात्त इति वर्तते। आगच्छेति द्वावुदात्तौ। अन्त्योऽनुदात्तः। मघवन्निति पदात् परमामन्त्रितं निहन्यते॥

Siddhanta Kaumudi

Up

सुब्रह्मण्याख्ये निगदे यज्ञकर्मणि <{SK3663}> इति विभाषा छन्दसि <{SK3635}> इति च प्राप्ता एकश्रुतिर्न स्यात्स्वरितस्योदात्तश्च स्यात् । सुब्रह्मण्यो3म् ॥ (सुब्रह्मणि साधुरिति यत् । न च एकादेश उदात्तोनोदात्तः <{SK3658}> इति सिद्धे पुनरत्रेमुदात्तविधानं व्यर्थमिति वाच्यम् । तत्रानुदात्त इत्यस्यानुवृत्तेः ॥<!असावित्यन्तः !> (वार्तिकम्) ॥ तस्मिन्नेव निगदे प्रथमान्तस्यान्त उदात्तः स्यात् । गार्ग्यो यजते । ञित्त्वात्प्राप्त आद्युदात्तोऽनेन बाध्यते ।<!अमुष्येत्यन्तः !> (वार्तिकम्) ।<!स्यान्तस्योपोत्तमं च !> (वार्तिकम्) ॥ चादन्तस्येन द्वावुदात्तौ । गार्ग्यस्य पिता यजते ।<!वा नामधेयस्य !> (वार्तिकम्) ॥ स्यान्तस्य नामधेयस्य उपोत्तममुदात्तं वा स्यात् । देवदत्तस्य पिता यजते ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

सुब्रह्मण्या नाम निगद इति । अपादबन्धे गदिर्वर्तते, यथा गद्यमिति, निशब्दः प्रकर्षे । उच्चैरपादबन्धं यजुरात्मकं यन्मन्त्रवाक्यं पठ।ल्ते स निगदः, नितरां गद्यत इति कर्मणि ऽनौ गदनदऽ इत्यप्, तस्य च सुब्रह्णण्याशब्दोपलक्षितत्वात् सुब्रह्मण्याशब्दोपरित्यक्तिस्त्रीलिङ्ग एव नाम । ओङ्कारस्तित्स्वरेण स्वरित इति सुब्रह्मणि साधुरिति यत्प्रत्ययः, तित्स्वरेण स्वरितः । तस्य टाबेकादेशः स्वरितानुदातयोरान्तर्यात् स्वरितः, ततो निपातेर्नौशब्देन ऽओमाङेश्चऽ इत्युदातस्वरितयोरेकादेशः स्वरित एव । ऽआमन्त्रितमाद्यौदातम्ऽ इति आष्टमिकस्तु निघातोऽसमानवाक्यत्वान्न भवति । तस्यानेनेति । न च तस्यासिद्धत्वम्, इदं हि प्रकरणमसिद्धकाण्ड उत्क्रष्टडव्यमित्युक्तम् । अत एवास्मिन्नुदाते कृते शेषनिघातोऽपि न भवति; यथोद्देशपक्षेऽनुदातपरिभाषायां कर्तव्यायामसिद्धत्वेन वर्ज्यमानाभावात् । तेनेह द्वावप्युदातौ सम्पन्नौ थैति । पश्चिम एकोऽनुदात इति । न च तस्य ऽउदतादनुदातस्यऽ इति स्वरितप्रसङ्गः; प्रकरणोतकर्षेणस्यासिद्धत्वाद्, ऽनोदातस्वरितोदयम्ऽ इति निषेधाच्च । द्वावनुदाताविति । वकारच्छकारौ, शिष्ट्ंअ स्पष्टम् । ऽअसावमुष्येत्यन्तःऽ एतस्मिन्नेव सुब्रह्मण्यानिगदे प्रथमान्तस्य षष्ठ।ल्न्तस्य चान्त उदातो भवति । गार्ग्यो यजते, दाक्षेः पिता यजते - तित्स्वरे प्राप्ते वचनम् । ऽस्यान्तस्योपोतमं चऽ स्यशब्दान्तस्योपोतममुतमं चोभयमुदातं भवति । गार्ग्यस्य पिता यजते ऽवा नामेधयस्यऽ । देवदतस्य पिता यजते ॥