1-2-36 विभाषा छन्दसि एकश्रुति
छन्दसि विषये विभाषैकश्रुतिर्भवति, पक्षान्तरे त्रैस्वर्यमेव भवति। वेति प्रकृते विभाषाग्रहणं यज्ञकर्मणीत्यस्य निवृत्त्यर्थम्। तेनायं स्वाध्यायकालेऽपि पाक्षिक ऐकश्रुत्य — विधिर्भवति। इ॒षे त्वो॒र्जे त्वा॑, इषे त्वोर्जे त्वा (मा०सं० १.१)। अग्न आ याहि वीतये, अग्न आ याहि वीतये (कौ०सं० १.१.१) । अ॒ग्निमी॑ळे पु॒रोहि॑तम्, अग्निमीळे पुरोहितम् (ऋ० १.१.१)। शन्नो॑ दे॒वीर॒भिष्टये॑, शन्नो देवीरभिष्टये (शौ०सं०१.६.१)॥
छन्दसि विभाषा एकश्रुतिः स्यात् । व्यवस्थितविभाषेयम् । संहितायां त्रैस्वर्यम् । ब्राह्मणे एकश्रुतिर्बह्वृचानाम् । अन्येषामपि यथासंप्रदायं व्यवस्था ॥