1-2-35 उच्चैस्तरां वा वषट्कारः एकश्रुति यज्ञकर्म
index: 1.2.35 sutra: उच्चैस्तरां वा वषट्कारः
यज्ञकर्मणि इति वर्तते। यज्ञकर्मणि वषट्कारः उच्चैस्तरां वा भवति एकश्रुतिर्वा। वषट्शब्देन अत्र वौषट् शब्दो लक्षयते। वौषटित्यस्यैवैदं स्वरविधानम्। यद्येवं वौषड्ग्रहणम् एव कस्मान् न कृतम्? वैचित्र्यार्थम्। विचित्र हि सूत्रस्य कृतिः पाणिनेः। सोमस्य अग्ने वीही3षट्। सोमस्य अग्ने वीही3 वौ3षट्।
index: 1.2.35 sutra: उच्चैस्तरां वा वषट्कारः
यज्ञकर्मणि वौषट्शब्द उच्चैसत्रां वा स्यादेकश्रुतिर्वा ।
index: 1.2.35 sutra: उच्चैस्तरां वा वषट्कारः
वषट्शब्देन चात्र वौषट्शब्दो लक्ष्यते इति । समानार्थत्वाद् द्वावपि हि तौ देवतासंप्रदानस्य द्योतकौ । कारग्रहणं तु ज्ञापकम्-अवर्णादपि कारप्रत्ययो भवतीति । तेन एवकार इत्यादि सिद्धं भवति । यद्येवमिति । लक्षणायां हि प्रतिपतिगौरवं भवतीति भावः । विचित्रा हीति । क्वचिदक्षरलाघवमाश्रीयते, क्वचित्प्रतिपतिलाघवमिति वैचित्र्यम् । उच्चैस्तरामिति । उच्चैःशब्द उदातभवने वर्तते, तत्र भवनक्रिययापेक्षया प्रत्ययः । उदाततर इत्यर्थो विवक्षितः, प्रकर्षश्च वौषट्शब्दे ऽब्रूहिप्रेषयश्रौषड्वहानामादेःऽ इति यः प्लुतो विहितः तदपेक्षया वेदितव्यः । सन्त्युदाताः, अयं तूदाततरः । अन्त्यसदेशस्येत्येके । प्लुतोदातस्य च विधानसामर्थ्याच्छेषनिघाताभावोऽसिद्धत्वाद्वा द्वयोरप्यचोरुदाततरो भवतीत्येके । तदा याज्यान्तापेक्षः प्रकर्षः स्वार्थि कस्तरबित्यन्ये । ततो ह्युदातमात्रम्प्रथमस्य सिद्धमिति द्वितीयस्याचो विधीयते । वषट्कारशब्दोऽयं मन्त्रब्राह्ममयोः कल्पसूत्रेषु वौषट्शब्दे निरूढः । वषट् क्रियतेऽनेनेति वषट्कारः । ऽमा मान्प्रमृजऽ इति मन्त्रे, ऽत्रयो वै वषट्काराः वौषडिति वषट्करोतिऽ इति ब्राह्मणे च वषट्कारोऽन्त्यः । ऽसर्वत्रोच्चैस्तरां बलीयान्याज्यायाऽ इति सूत्रे उच्चैस्तरामिति श्रुतिप्रकर्षो विधीयत इत्याहुः ॥