यज्ञकर्मण्यजपन्यूङ्खसामसु

1-2-34 यज्ञकर्म णि अजपन्यूङ्खसामसु एकश्रुति

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्रैस्वर्येण वेदे मन्त्राःपठ्यन्ते। तेषां यज्ञक्रियायामपि तथैव प्रयोगे प्राप्त एकश्रुतिर्विधीयते। जपन्यूङ्खसामानि वर्जयित्वा यज्ञकर्मणि मन्त्राणामैकश्रुत्यं भवति। अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयम्। अपां रेतांसि जिन्वतो३म् (ऋ० ८.४४.१६)। यज्ञकर्मणीति किम्? संपाठे मा भूत्। अजपेष्विति किम्? ममा॑ग्ने॒ वचो᐀्॑ विह॒वेष्व॑स्तु (ऋ० १०.१२८.१)। जपोऽनुकरणमन्त्रः, उपांशुप्रयोगः। अन्यूङ्खेष्विति किम्? न्यूङ्खा ओकाराः। षोडश (द्र० — आश्व०श्रौ०उत्तरार्द्घ १.११)। तेषु केचिदुदात्ताः केचिदनुदात्ताः। असामस्विति किम्? ए ३ विश्वं॒ सम॒त्रिणं॑ दह (जै०सं० ४.८.६)। सामानि वाक्यविशेषस्था गीतय उच्यन्ते। तत्रैकश्रुतिर्न भवति॥

Siddhanta Kaumudi

Up

यज्ञक्रियायां मन्त्र एकश्रुतिः स्याज्जपादीन्वर्जयित्वा । अग्निर्मूधा (अ॒ग्निर्मू॒र्धा) । दिवः ककुत् (दि॒वः क॒कुत्) । यज्ञेति किम् । स्वनाध्यायकाले त्रैस्वर्यमेव । अजपेति किम् । ममाग्ने वर्चो विहवेष्वस्तु (ममा॑ग्ने॒ वर्चो॑ विह॒वेष्व॑स्तु) । जपो नाम उपांशुप्रयोगः । यथा जले निमग्नस्य । न्यूङ्खा नाम षोडश ओकाराः । गीतिषु सामाख्या ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ऐकश्रुत्यमिति । बहुव्रीहेर्भावप्रत्ययः, चातुर्वर्ण्यादित्वाद्वा कर्मधारयात्स्वार्थे ष्यञ् । संपाठ इति । स्वाध्यायकाले अग्निर्मूर्धा दिवः ककुत्, ऽअङ्गेर्नलोपश्चऽ इत्यग्निशब्दः प्रत्ययस्वरेणान्तोदातः, ऽमुवÕ बन्धनेऽ, ऽकनिन्युवृषितक्षिऽ इति वर्ततमाने ऽश्वन्नुक्षन्पूषन्तक्षन्ऽ इत्यत्र सूत्रे मूर्धन्शब्दः कनिन्प्रत्यान्तोऽन्तोदातो निपातितः । ऽदिवु क्रीडादौऽ, दिवेरन्तो डिविः षष्ठ।लेकवचनस्य ऽऊडिदम्ऽ इत्युदातम्, ककुच्छब्दः प्रातिपदिकस्वरेणान्तोदातः, ऽपातेर्डतिःऽ,पतिशब्दः प्रत्ययस्वरेणाद्यौदातः, प्रथेः षिवन् संप्रसारणं च षित्वात् ङीष्, षठ।लेकवचनस्य ऽउदातयणो हल्पूर्वात्ऽ इत्युदातत्वम्, इदंशब्दः प्रतिपदिकस्वरेणान्तोदातः, आप्नोतेः क्विब् ह्रस्वश्च, ऽऊडिदम्ऽ इति विभक्तेरुदातत्वम् । ऽरि गतौऽ, ऽस्रुरिभ्यां तुट् चऽ इति असुन्प्रत्ययः, नित्स्वरेणाद्यौदातो रेतः शब्दः । जिन्वतीति । जिन्वतेः प्रीणनार्थस्य तिपि निघातः ऽप्रणवष्टेःऽ इति प्रयोगकाले प्रणयः । ममेत्यादि । ऽयुष्मदस्मदोण्Çóसिऽ इत्याद्यौदातत्वम् । अग्नेशब्दस्यामन्त्रिनिघातः, वर्चशशब्दोसुन्प्रत्ययान्तः, विपूर्वाद् ह्वयतेः ऽह्वः संप्रसारणं चऽ इत्यप्प्रत्यये थाथादिसूत्रेणान्तोदातत्वम् । जपोऽनुकरणमन्त्र इति । यद्यपि स एव मन्त्र उच्चार्यते, तथापि वर्णाभिव्यक्त्यनभिव्यक्तिभ्यां भेदपरिकल्पनयाऽनुकरणव्यवहारः । अत एवाह - उपांशुप्रयोग इति । यथा जले निमग्नस्य पाठः । क्वचिदकरणमन्त्र इति पाठः, अनेनेदं कुर्यादिति चोदितः करणमन्त्रः, ततोऽन्योऽकरणमन्त्रः । प्रसिद्धस्तु पाठोऽन्तः करणमन्त्र इति । ननु वागिन्द्रियेण शब्द उच्चार्यते स कथमन्तः करणेन सर्वेन्द्रियसाधारणेन व्यपदिश्यते, सत्यम्; वागिन्द्रियस्य स्थूलो व्यापार उपांशुप्रयोगे नास्ति, स एव च तद्व्यापारत्वेन प्रसिद्ध इति सूक्ष्मव्यापारे मन एव प्रधानं मन्यते । न्यूङ्खा इत्यादि । षोडशेति पाठः, ओकारा इति च, न त्वेते मकारान्ताः, तेषु प्रथमसप्तमत्रयोदशास्त्रय उदातास्त्रिमात्राः, इतरे त्रयोदशा अनुदाता अर्धौकाराः । एतच्च आश्वलायनेन चतुर्थेऽहनीत्यस्मिन् खण्डे लक्षणेनोक्तमुदाहृतं च । ऽषडोङ्काराःऽ इति पाठे मूलान्तरं मृग्यम् । ए3 विश्वमित्यादि । एशब्दो गीतिपूरणः, निपात इत्यन्ये । विश्वशब्दः क्वन्प्रत्ययान्त आद्यौदातः, विश्वमन्त्रिणं पाप्मानं संदहेति सम्बन्धः, गीतिवशादेशब्दोऽनेकमात्रः । वाक्यविशेषस्था गीतय इति । तदुक्तमृषिणा-ऽगीतिषु सामाख्याऽ इति ॥