एकश्रुति दूरात् सम्बुद्धौ

1-2-33 एकश्रुति दूरात् सम्बुद्धौ

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

त्रैस्वर्ये पदानां प्राप्ते दूरात् संबुद्धावैकश्रुत्यं विधीयते। एका श्रुतिर्यस्य तदिदमेकश्रुति। एकश्रुति वाक्यं भवति। दूरात् संबोधयति येन वाक्येन तत् संबोधनं संबुद्घिः,न <<एकवचनं संबुद्धिः>> (२.३.४९)। स्वराणामुदात्तादीनामविभागो भेदतिरोधानमेकश्रुतिः। आगच्छ भो माणवक देवदत्त३। दूराद् इति किम्? आग॑च्छ॒ भो मा॑णवक देवद॒त्त३॥

Siddhanta Kaumudi

Up

दूरात्संबोधने वाक्यमेकश्रुतिः स्यात् । त्रैस्वर्यापवादः । आगच्छ भो माणवक ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

इह यद्यप्यामन्त्रितान्तस्य पदस्याप्यभिमुखीकरणं प्रति सामर्थ्यम्, तथापि ह्यर्थविशेषस्य कस्यचिदनुष्ठेयतया । संबोधनाउसंबुद्धिः, अन्तर्भावितण्यर्थो बुद्धिः, तथा च संबोधयति येनेति णिच् प्रयुक्तः, तत्र च वाक्यस्यैव करणभावो न पदस्येति मत्वाह - एकश्रुति वाक्यं भवतीति । कतरत्पुनस्तदित्यत आह - दूरादिति संबोधनं संबुद्धिरिति । अनेनान्वर्थस्य संबुद्धिशब्दग्रहणं न पारिभाषिकस्येति दर्शयति । पारिभाषिकस्य हि ग्रहणे, देवा ब्राह्मणा इत्यत्र न स्यात् । अन्वर्थग्रहणं च दूरादित्यनेन सम्बन्धाल्लभ्यते, न ह्यामन्त्रितैकवचनस्य दूरत्वमदूरत्वं वा सम्भवति । संबोधनस्य तु क्रियारूपत्वाद् अपादानतया दूरादिति विशेषणसम्भवात् । दूरत्वं च न देशस्वरूपागतमाश्रीयते, अनवस्थितत्वात्; किन्तु सम्बोधनक्रियापेक्षया दूरत्वम् । यावति देशे प्राकृतप्रयत्नोच्चारितं सम्बोध्यमानेन न श्रूयते, किन्त्वधिकं प्रयत्नमपेक्ष्यते, तत्संबुद्धौ दूरं भवति । स्वराणामित्यादि । एकश्रुतिउस्वरूपाख्यानम्, भेदीतरोधानमित्यनन्तरोक्तस्यैव विवरणम् । आगच्छत्यादि । दूराद्धूते वाक्यस्य टेः प्लुतः उदातः, परिशिष्टमेकश्रुति । ननु च प्लुतैकश्रुत्योर्द्वयोरपि दूरात्संबोधनं द्योत्यमिति फलैक्याद्विकल्पो युक्तः, कथं समावेशः ? उच्यते, वाक्यमेव प्रतिपादकत्वात् संबुद्धौ करणं प्लुतैकश्रुतीत्यस्यैव संस्कारमात्रम्, यथा-विषयग्रहणे चक्षुष उन्मीलनादि, तत्कुतः समानफलत्वमिति वाक्यापेक्षया च समावेशः । अन्त्याजपेक्षया तु बाध्यबाधकभाव एव । प्रत्युदाहरथणे त्रैस्वर्यमेव भवति । तत्राङ् ऽउपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातः । गच्छेति तिङ्न्तस्यऽतिङ्ङतिङःऽ इति निघातः । भोःशब्दः ऽनिपाता आद्यौदाताःऽ इति आद्यौदातः, शेषयोरामन्त्रितनिघातः ॥