1-2-2 विज इट् ङित्
index: 1.2.2 sutra: विज इट्
A प्रत्यय that gets an इडागम is considered ङित् when attached to the dhatu 'विज्'.
index: 1.2.2 sutra: विज इट्
'ओविजी भयचलनयोः' (तुदादिगणः), अस्मात् परः इडादिः प्रत्ययो ङिद्वद् भवति । उद्विजिता, उद्विजितुम्, उद्विजितव्यम् । इटिति किम् ? उद्वेजनम्, उद्वेजनीयम् ॥
index: 1.2.2 sutra: विज इट्
विजेः पर इडादिः प्रत्ययो ङिद्वत् । उद्विजिता । उद्विजिष्यते ।{$ {!1290 ओलजी!} {!1291 ओलस्जी!} व्रीडायाम्$} । लजते । लेजे । लज्जते । ललज्जे ॥ अथ परस्मैपदिनः ।{$ {!1292 ओव्रश्चू!} छेदने$} । ग्रहिज्या - <{SK2412}> । वृश्चति । वव्रश्च । वव्रश्चतुः । वव्रश्चिथ । वव्रष्ठ । लिट्यभ्यासस्य - <{SK2408}> इति संप्रसारणम् । रेफस्य ऋकारः । उरत् <{SK2244}> तस्य अचः परस्मिन् - <{SK50}> इति स्थानिवद्भावात् । न संप्रसारणे - <{SK363}> इति वस्योत्वं न । व्रश्चिता । व्रष्टा । व्रश्चिष्यति । व्रक्ष्यति । वृश्च्यात् । अव्रश्चीत् । अव्राक्षीत् ।{$ {!1293 व्यच!} व्याजीकरणे$} । विचति । विव्याच । विविचतुः । व्यचिता । व्यचिष्यति । विच्यात् । अव्याचीत् । अव्यचीत् ॥<!व्यचेः कुटादित्वमनसीति तु नेह प्रवर्तते !> (वार्तिकम्) ॥ अनसीति पर्युदासेन कृन्मात्रविषयत्वात् ।{$ {!1294 उछि!} उञ्छे$} । उञ्छति ।{$ {!1295 उच्छी!} विवासे$} । उच्छति ।{$ {!1296 ऋच्छ!} गतीन्द्रियप्रलयमूर्तिभावेषु$} । ऋच्छत्यॄताम् <{SK2383}> इति गुणः । द्विहल्ग्रहणस्यानेकहलुपलक्षणत्वान्नुट् । आनर्छ । आनर्छतुः । ऋच्छिता ।{$ {!1297 मिच्छ!} उत्क्लेशे$} । उत्क्लेशः । पीडा । मिमिच्छा । अमिच्छीत् ।{$ {!1298 जर्ज!} {!1299 चर्च!} {!1300 झर्झ!} परिभाषणभर्त्सनयोः$} ।{$ {!1301 त्वच!} संवरणे$} । तत्वाच ।{$ {!1302 ऋच!} स्तुतौ$} । आनर्च ।{$ {!1303 उब्ज!} आर्जवे$} ।{$ {!1304 उज्झ!} उत्सर्गे$} ।{$ {!1305 लुभ!} विमोहने$} । विमोहनमाकुलीकरणम् । लुभति । लोभिता । लोब्धा । लोभिष्यति ।{$ {!1306 रिफ!} कत्थनयुद्धमनिन्दायहिंसादानेषु$} । रिफति । रिरेफ । रिहेत्येके । शिशुं न विप्रा मतिभी रिहन्ति ।{$ {!1307 तृप!} {!1308 तृम्फ!} तृप्तौ$} । आद्यः प्रथमान्तः । द्वितीयो द्वितायान्तः । द्वावपि द्वितीयान्तावित्यन्ये । तृपति । ततर्प । तर्पिता ॥ स्पृशमृशेति सिज्विकल्पः पौषादिकस्यैव अङपवादत्वात् । तेनात्र नित्यं सिच् । अतर्पीत् । तृम्फति । शस्य ङित्त्वात् अनिदिताम् - <{SK415}> इति नलोपे ।<!शे तृम्फादीनां नुम्वाच्यः !> (वार्तिकम्) ॥ आदिशब्दः प्रकारे । तेन येऽत्र नकारानुषक्तास्ते तृम्फादयः । तृम्फति । ततृम्फ । तृफ्यात् ।{$ {!1309 तुप!} {!1310 तुम्प!} {!1311 तुफ!} {!1312 तुम्फ!} हिंसायाम्$} । तुपति । तुम्पति । तुफति । तुम्फति ।{$ {!1313 दृप!} {!1314 दृम्फ!} उत्क्लेशे$} । प्रथमः प्रथमान्तः । द्वितायो द्वितायान्तः । प्रथमो द्वितीयान्त इत्येके । दृपति । दृम्फति ।{$ {!1315 ऋफ!} {!1316 ऋम्फ!} हिंसायाम्$} । ऋफति । आनर्फ । ऋम्फति । ऋम्फांचकार ।{$ {!1317 गुफ!} {!1318 गुम्फ!} ग्रन्थे $}। गुफति । जुगोफ । गुम्फति । जुगुम्फ ।{$ {!1319 उभ!} {!1320 उम्भ!} पूरणे$} । उभति । उवोभ । उम्भति । उम्भांचकार ।{$ {!1321 शुभ!} {!1322 शुम्भ!} शोभार्थे$} । शुभति । शुम्भति ।{$ {!1323 दृभी!} ग्रन्थे$} । दृभति ।{$ {!1324 चृती!} हिंसाग्रन्थनयोः$} । चर्तिता । सेसिचि - <{SK2506}> इति वेट् । चर्तिष्यति । चर्त्स्यात् । अचर्तीत् ।{$ {!1325 विध!} विधाने$} । विधति । वेधिता ।{$ {!1326 जुड!} गतौ$} । तवर्गपञ्चमान्त इत्येके । जुडति । मरुतो जुनन्ति ।{$ {!1327 मृड!} सुखने$} । मडति । मर्डिता ।{$ {!1328 पृड!} च$} । पृडति ।{$ {!1329 पृण!} प्रीणने$} । पृणति । पपर्ण ।{$ {!1330 वृण!} च $}। वृणति ।{$ {!1331 मृण!} हिंसायाम्$} ।{$ {!1332 तुण!} कौटिल्ये$} । तुतोण ।{$ {!1333 पुण!} कर्मणि शुभे$} । पुणति ।{$ {!1334 मुण!} प्रतिज्ञाने$} ।{$ {!1335 कुण!} श्ब्दोपकरणयोः$} ।{$ {!1336 शुन!} गतौ$} ।{$ {!1337 द्रुण!} हिंसागतिकौटिल्येषु$} ।{$ {!1338 घुण!} {!1339 घूर्ण!} भ्रमणे$} ।{$ {!1340 षुर!} ऐश्वर्यदीप्त्योः$} । सुरति । सुषोर । आशिषि सूर्यात् ।{$ {!1341 कुर!} शब्दे$} । कुरति । कूर्यात् । अत्र न भकुर्छुरम् <{SK1629}> इति निषेधो न । करोतेरेव तत्र ग्रहणादित्याहुः ।{$ {!1342 खुर!} छेदने$} ।{$ {!1343 मुर!} संवेष्टने$} ।{$ {!1344 क्षुर!} विलेखने$} ।{$ {!1345 घुर!} भीमार्थशब्दयोः$} ।{$ {!1346 पुर!} अग्रगमने$} ।{$ {!1347 वृहू!} उद्यमने$} । दन्त्योष्ठ्यादिः । पवर्गीयादिरित्यन्ये ।{$ {!1348 तृहू!} {!1349 स्तृहू!} {!1350 तृंहू!} हिंसार्थाः$} । तृहति । ततर्ह । स्तृहति । तस्तर्ह । स्तहिंता । स्तर्ढा । अतृंहीत् । अतार्ङ्गक्षीत् । अतार्ण्ढाम् ।{$ {!1351 इष!} इच्छायाम्$} । इषुगमि - <{SK2400}> इति छः । इच्छति । एषिता । एष्टा । एषिष्यति । इष्यात् । ऐषीत् ।{$ {!1352 मिष!} स्पर्धायाम्$} । मिषति । मेषिता ।{$ {!1353 किल!} श्वैत्यक्रीडनयोः$} ।{$ {!1354 तिल!} स्नेहने$} ।{$ {!1355 चिल!} वसने$} ।{$ {!1356 चल!} विलसने$} ।{$ {!1357 इल!} स्वप्नक्षेपणयोः$} ।{$ {!1358 विल!} संवरणे$} । दन्त्योष्ठ्यादिः ।{$ {!1359 बिल!} भेदने$} । ओष्ठ्यादिः ।{$ {!1360 णिल!} गहने$} ।{$ {!1361 हिल!} भावकरणे$} ।{$ {!1362 शिल!} {!1363 षिल!} उञ्छे$} ।{$ {!1364 मिल!} श्लेषणे$} ।{$ {!1365 लिख!} अक्षरविन्यासे$} । लिलेख ।{$ {!1366 कुट!} कौटिल्ये$} । गाङ्कुटादिभ्यः - <{SK2461}> इति ङित्वम् । चुकुटिथ । चुकोट । चुकुट । कुटिता ।{$ {!1367 पुट!} संश्लेषणे$} ।{$ {!1368 कुच!} सङ्कोचने$} ।{$ {!1369 गुज!} शब्दे$} ।{$ {!1370 गुड!} रक्षायाम्$} ।{$ {!1371 डिप!} क्षेपे$} ।{$ {!1372 छुर!} छेदने$} । न भकुर्छुराम् <{SK1629}> इति न दीर्घः । छुर्यात् ।{$ {!1373 स्फुट!} विकसने$} । स्फुटति । पुस्फोट ।{$ {!1374 मुट!} आक्षेपमर्दनयोः$} ।{$ {!1375 त्रुट!} छेदने$} । वाभ्रास - <{SK2321}> इति श्यन्वा । त्रुट्यति । त्रुटति । तुत्रोट । त्रुडिता ।{$ {!1376 तुट!} कलहकर्मणि$} । तुटति । तुतोट । तुटिता ।{$ {!1377 चुट!} {!1378 छुट!} छेदने$} ।{$ {!1379 जुड!} बन्धने$} ।{$ {!1380 कड!} मदे$} ।{$ {!1381 लुट!} संश्लेषणे$} ।{$ {!1382 कृड!} घनत्वे$} । घनत्वं सान्द्रता । चकर्ड । कृडिता ।{$ {!1383 कुड!} बाल्ये$} ।{$ {!1384 पुड!} उत्सर्गे$} ।{$ {!1385 घुट!} प्रतिघाते$} ।{$ {!1386 तुड!} तोडने $}। तोडनं भेदः ।{$ {!1387 थुड!} {!1388 स्थुड!} संवरणे$} । थुडति । तुथोड । तुस्थोड । खुड छुड इत्येके ।{$ {!1389 स्फुर!} {!1390 स्फुल!} संचलने$} । स्फुर स्फुरणे । स्फुल संचलन इत्येके ॥
index: 1.2.2 sutra: विज इट्
विजेः पर इडादिप्रत्यये ङिद्वत् । उद्विजिता ॥ इति तुदादयः ॥ ६ ॥
index: 1.2.2 sutra: विज इट्
विज इट् - विज इट् । 'गाङ्कुटादिभ्यः' इत्यतो ङिदित्यनुवर्तते । तदाह - विजेः पर इत्यादि । उद्विजिता । उद्विजिषीष्ट ।उदविजिष्ट । व्रश्चधातुरूदित्त्वाद्वेट् । ग्रहिज्येति । लटि व्रश्च् अतीति स्थिते शस्याऽपित्त्वेन ङित्त्वात्ग्रहिज्ये॑ति रेफस्य संप्रसारणमृकारः, पूर्वरूपं चेति भावः ।तदाह - वृश्चतीति । वृश्चतः वृश्चन्तीत्यादि । वव्रश्चेति । णलि रूपमिदम् । थलि च प्रक्रिया अनुपदं वक्ष्यते । अतुसादौ संयोगात्परत्वेन कित्त्वाऽभावात्ग्रहिज्ये॑ति न संप्रसारणम् । तदाह — वव्रश्चतुरिति । ऊदित्त्वात्थलि वेट् । तदाह — वव्रश्चिथ वव्रष्ठेति । धातुपाठे 'व्रश्चू' इत्यत्र व्रस् च् इति सथिते सस्य श्चुत्वेन शकारनिर्देशः । तता च वव्रश्च् थ इति स्थिते श्चुत्वनस्याऽसिद्धत्वात् 'स्कोः' इति सकारलोपे, चस्यव्रश्चे॑ति षत्वे, ष्टुत्वेन थस्यठत्वे, वव्रष्ठेतिरूपम् । वव्रश्चिव । ननु णलि थलि च अकितिद्वित्वे कृतेलिटब्यासस्ये॑त्यब्यासावयवयोर्वकाररेफयोद्र्वयोरपि संप्रसारणं स्यात् । न चन संप्रसारणे संप्रसारण॑मिति वकारस्य संप्रसारणनिषेधः शङ्क्यः, पूर्वं वकारस्य संप्रसारणसंभवादित्यत आह — लिटभ्यासेति । 'न संप्रसारणे' इति निषेधादेव ज्ञापक#आत्प्रथमं रेफस्य ऋकारः संप्रसारणमित्यर्थः । तस्यसंप्रसारणसंपन्नस्य ऋकारस्य अकारविधं स्मारयति - उरदिति । ननु ऋकारस्य अकारे कृते वकारस्य संप्रसारणं स्यात्, संप्रसारणपरकत्ववविरहेण 'न संप्रसारणे' इति निषेधाऽप्रवृत्तेरित्यत आह — तस्य चेति । अकारस्येत्यर्थ- । न च उरदत्त्वस्य परिनिमित्तक्तवाऽश्रवणात्कथं स्थानिवत्त्वमिति वाच्यम्,अपादपरिसमाप्तेरङ्गाधिकार॑ इत्यभ्युपगम्य अह्गाक्षिप्रत्ययनिमित्तकत्वाभ्युपगमात् ।लक्ष्ये लक्षणस्य सकृदेव प्रवृत्ति॑रितिन्यायस्तु 'न संप्रसारणे' इति निषेधादेव न स्थानिबेदे प्रवर्तत इति ज्ञायते । अत एव 'सुद्ध्युपास्य' इत्यादौ धकारस्य द्वित्वे कृते पूर्वधकारस्य जश्त्वेन दकारे तस्य द्वित्वमित्यास्तां तावत् । आशीर्लिङ्याग - वृश्च्यादिति । कित्त्वात्संप्रसारणमिति भावः । अव्राक्षीदिति । अव्रश्च् सीत् इति स्थिते हलन्तलक्षणावृद्धिः । श्चुत्वस्याऽसिद्धत्वात् 'स्कोः' इति सलोपः ।व्रश्चे॑ति चस्य षः, तस्यषढो॑रिति कऋः, सस्य ष इति भावः ।नकारजावनुस्वरपञ्चमौ झलिधातुषु । सकारजः शकारः श्चे, र्षाट्टवर्गस्तवर्गजः । इत्याहुः । व्यच । सेट् । शेग्रहिज्ये॑ति संप्रसारणं मत्वाह - विचतीति । वव्याचेति ।लिटभ्यासस्ये॑त्यभ्यासयकारस्य संप्रसारणम् । 'न संप्रसारणे' इति न वकारस्य । विविचतुरिति । कित्त्वात्ग्रहिज्ये॑ति संप्रसारणे कृते द्वितवादीति भावः । विव्यचिथ । विविचिव । विच्यादिति । आशीर्लिङि कित्त्वाद्यकारस्य संप्रसारणम् ।अतो हलादे॑रिति वृद्धिविकल्पं मत्वाह - अव्याचीत् अव्यचीदिति । ननुव्यचेः कुटादित्वमनसी॑ति व्यचेः कुटादित्ववचनात् व्यचिता, व्यचिष्यतीत्यादावपि 'गाङ्कुटादिभ्यः' इति ङित्त्वात् संप्रसारणं स्यादित्यत आह- व्यचेरिति । कृन्मात्रेति । अवधारणे मात्रशब्दः । 'उछि उञ्छे' 'उछी विवासे' इति भ्वादौ पठितौ । इह तयोः पाठस्तु शविकरणार्थः । तेन उञ्छती उञ्छन्ती, उच्छती उच्छन्ती इतिआच्छीनद्यो॑रिति नुम्विकल्पः सिध्यति । भ्वादौ पाठस्तु पित्स्वरार्थ इत्यन्यत्र विस्तरः । ऋच्छ गतीति ।छे चे॑ति तुकि तस्य शचुत्वेन चकानिर्देशः । ऋच्छति । णलि लघूपधत्वाऽभावाद्गुणे अप्राप्ते आह - ऋच्छत्यृतामिति । द्वित्वे उरदत्त्वे हलादिशेषेअत आदे॑रिति दीर्घे आ अच्र्छ इति स्थिते बहुहल्त्वाद्विहल्त्वाऽभावान्नुटि अप्राप्ते आह - द्विहल्ग्रहणस्येति । आनच्र्छेति.॒इजादे॑रित्यत्र 'अनृच्छः' इति पर्युदासादाम्न । ऋच्छतेति ।ऋच्छत्यृता॑मित्यत्र लिटीत्यनुवृत्तेर्न गुण इति बावः । लुभधातुः सेट् ।तीषसहे॑ति वेडिति मत्वाह- लोभिता लोब्धेति । शिशुं नेति ।नशब्द इवार्थे । विप्राः शिशुमिव मतिभिः रिहन्ति = हिंसन्तीत्यर्थः । तृपधातुः श्यन्विकरण एवाऽनिट् । अङपवादत्वादिति । अपवादस्य उत्सर्गसमानदेशत्वादिति भावः । चृती हिंसाश्रन्थनयोरिति । श्रन्थनं विरुआंसनम् । चृततीत्यादि सुगमम् ।अथास्य योकं विचृते॑दित्याआलायनः । विरुआंसयेदित्यर्थः , उपसर्गवशात् ।यजमानो मेखलं विचृतते॑ इत्यापस्तम्बसूत्रे तु तङ् आर्षः । षुरधातुः षोपदेशः । कुर शब्दे । करोतेरेवेति । व्याख्यानमेवाऽत्र शरणम् । वृहूधातुः ऋदुपधः । ऊदित्त्वाद्वेट्कः । पवर्गादिरिति । पवर्गतृतीयादिरित्यर्थः । तृहू स्तृहू तृंहू इति । त्रयोऽपि ऋकारवन्तः । तृतीयोऽनुस्वारवान् । उदित्त्वाद्वेट् । तर्ढेति । तृहेस्तासि ढत्वध्तवष्टुत्वढलोपाः । एवं स्तर्ढा । तृण्ढा । अतर्हीत् अतार्क्षीत्, अस्तर्हीत् अस्तार्क्षीदिति सिद्धवत्कृत्याह - अतृंहीत् - अतार्ङ्क्षीदिति । तृंहेरिडभावपक्षे हलन्तलक्षणवृद्धौ रपरत्वम् । हस्य ढः, ढस्य कः, षत्वम् । अनुस्वारस्य परसवर्णो ङकार इति भावः । अतार्ढामिति । तृहेस्तसस्तामि सिच इडभावपक्षे लोपे हलन्तलक्षणवृद्धौ ढत्वधत्वष्टुत्वढञलोपा इति भावः । एव [स्तृहेः-] अस्तार्ढाम् [तृंहः] अतार्ण्ढाम् । स्फुर स्फुरणे ।
index: 1.2.2 sutra: विज इट्
ओविजी भयचलनयोरिति । यस्तु ऽसृजिविजि विद्ध्यनिट्स्वरान्ऽ इत् विचिः, न स गृह्यते; अनिट्त्वात् । इतरस्तु ईदित्वसामर्थ्यात् सेट्, वृद्धसंज्ञासूत्राद् यस्यादिरिति वर्तते, तेनेड्विशेष्यते-यस्यादिरिडिति । तेनोतमैकवचनस्य ग्रहणं न भवति, न ह्यसौ कस्याचिदादिः । अत एवागममात्रस्यायं ङ्त्विविधिर्न भवति, किं तर्हि ? तदादेः प्रत्ययस्येत्याह - इडादिः प्रत्यय इति । उद्विचितेति । ङ्त्वाल्लिघूपधगुणाभावः ॥