तृषिमृषिकृशेः काश्यपस्य

1-2-25 तृषिमृषिकृशेः काश्यपस्य कित् सेट् क्त्वा वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

न क्त्वा सेट् (१.२.१८) इति प्रतिषेधे प्राप्ते कित्त्वं विकल्प्यते। तृषि मृषि कृशि इत्येतेभ्यः परः क्त्वाप्रत्ययः सेट् काश्यपस्याचार्यस्य मते वा न किद् भवति। तृषित्वा, तर्षित्वा। मृषित्वा, मर्षित्वा। कृशित्वा, कर्शित्वा। काश्यपग्रहणं पूजार्थम्, वेत्येव हि वर्तते॥

Siddhanta Kaumudi

Up

एभ्यः सेट् क्त्वा किद्वा । तृषित्वा । तर्षित्वा । मृषित्वा । मर्षित्वा । कृशित्वा । कर्शित्वा । रलो व्युपधात्-<{SK2617}> इति वा कित्वम् । द्युतित्वा । द्योतित्वा । लिखित्वा । लेखित्वा । रलः किम् । सेवित्वा । व्युपधात्किम् । वर्तित्वा । हलादेः किम् । एषित्वा । सेट् किम् । भुक्त्वा । वसतिक्षुधोरिट्-<{SK3046}> । उषित्वा । क्षुधित्वा । क्षोधित्वा । अञ्चेः पूजायाम् <{SK3047}> इति नित्यमिट् । अञ्चित्वा । गतौ तु । अक्त्वेत्यपि । लुभित्वा । लोभित्वा । लुभोऽविमोहने-<{SK3048}> इतीट् । विमोहने तु लुब्ध्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ऽञितृषा पिपासायाम्ऽ,ऽमृष तितिक्षायाम्ऽ, ऽकृशतनूकरणेऽ । काश्यपग्रहणं पूजार्थमिति । ऽकाश्यपस्यैतद्विषयं विज्ञानं नान्येषाम्ऽ इत्यसाधारणज्ञानोद्भावनमाचार्यस्य पूजाद्वारेण शास्त्रस्यापि पारम्पर्यप्रतिपादनेन प्रामाण्यप्रितपादनात् पूजा भवति ॥