नोपधात्थफान्ताद्वा

1-2-23 न उपधात् थफान्तात् वा कित् सेट् क्त्वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निष्ठेति निवृत्तम्। नकारोपधाद् धातोस्थकारान्तात् फकारान्ताच्च परः क्त्वाप्रत्ययः सेड् वा न किद् भवति। ग्रथित्वा, ग्रन्थित्वा। श्रथित्वा, श्रन्थित्वा। गुफित्वा, गुम्फित्वा। नोपधाद् इति किम्? रेफित्वा। गोफित्वा। थफान्ताद् इति किम्? स्रंसित्वा। ध्वंसित्वा॥

Siddhanta Kaumudi

Up

सेट् क्त्वा कित्स्याद्वा । श्रथित्वा । श्रन्थित्वा । गुफित्वा । गुम्फित्वा । नोपधात्किम् । कोथित्वा । रेफित्वा ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

निष्ठेति निवृतमिति । पूर्वसूत्रे चानुकृष्टत्वात् । गुफित्वेति । ऽगुफ गुम्फ ग्रन्थनेऽ । रेफित्वेति । ऽरिफ कत्थनयुद्धनिन्दाहिंसादानेषुऽ । अथैतद्विकल्पाभावेऽपि ऽरलो व्युपधाद्ऽ इति विकल्पोऽत्र कस्मान्न भवति ? नोपधग्रहणसामर्थ्यात् । ननु ऋकारोपधो नोपधग्रहणस्य व्यावर्त्यः सम्भवति ऽऋफ हिंसायाम्ऽ- अर्फित्वेति, नैतदस्ति; त्रैशब्द्यं ह्यनयोर्धात्वोर्भवति । सति तावत्, अनोपधस्य ऽन क्त्वा सेट्ऽ इति निषेधे सति अर्फित्वेति भवति, नोपधस्य त्वस्मिन्विकल्पे-ऋफित्वेति । असत्यपि नोपधग्रहणे सर्वत्रास्मिन्विकल्पे प्रवृतेऽपीदमेव रूपत्रयं भवति । अन्तग्रहणं ज्ञापनार्थम्-यत्नमन्तरेणास्मिन्प्रकरणे न तदन्तविधिर्भवतीति, तेनोतरसूत्रे ऽऋतःऽ इति धातुर्गृह्यते, न ऋदन्तः ॥