पूङः क्त्वा च

1-2-22 पूङः क्त्वा च कित् सेट् निष्ठा

Kashika

Up

index: 1.2.22 sutra: पूङः क्त्वा च


अन्यतरस्याम् इति न स्वर्यते ; उतरसूत्रे पुनः वा वचनात् । न सेटिति वर्तते । पूडश्च इट् विहितः क्लिशः क्त्वानिष्ठयोः 7.2.50, पूङश्च 7.2.51 इति । पूडः परो निष्ठाप्रत्ययः क्त्वा च सेट् न कित् भवति । पवितः, पवितवान् । क्त्वाप्रत्ययस्य न क्त्वा सेट् 1.2.18 इति सिद्ध एव प्रतिषेधः ; तस्य ग्रहणमुत्तरार्थम् । तथा च (महाभाष्ये) उक्तम् - 'नित्यमकित्त्वम् इडाद्योः क्त्वानिष्ठयोः क्त्वाग्रहणमुत्तरार्थम्' इति ॥

Siddhanta Kaumudi

Up

index: 1.2.22 sutra: पूङः क्त्वा च


पूङः क्त्वा निष्ठा च सेट् किन्न स्यात् । पवितः । पूतः । क्त्वाग्रहणमुत्तरार्थम् । नोपधात् - <{SK3324}> इत्यत्र हि क्त्वैव संबध्यते ॥

Balamanorama

Up

index: 1.2.22 sutra: पूङः क्त्वा च


पूङः क्त्वा च - पूङः क्त्वा च ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति,निष्ठा शीङित्यतो निष्टेति च । तदाह — पूङः क्त्वा निष्ठा चेत्यादि । ननुन क्त्वा से॑डित्येव सिद्धे किमर्थमिह क्त्वाग्रहणमित्यत आह — क्त्वाग्रहणमुत्तरार्थमिति । तदेवोपपादयति — नोपधादित्यत्रेति । तत्र हि क्त्वाप्रत्ययस्यैवानुवृत्तिरिष्टा ।पूङश्चे॑त्येवोक्तौ तु 'निष्ठा शी' ङित्योत निष्ठाग्रहणमेवाऽनुवर्तेतेति भावः ।

Padamanjari

Up

index: 1.2.22 sutra: पूङः क्त्वा च


इहान्यतरस्यांग्रहणानुवृतौ सेडित्यस्य च निवृतौ इड्विधौ ऽपूङ्श्चऽ इति शक्यमकर्तुम्, उतरसूत्रे च वाग्रहणम्; कथम् ? अनिटोरेव क्त्वानिष्ठयोरनेन कित्वं विकल्प्यते,तत्र यदा कित्वं तदा ऽश्यकः कितिऽ इति प्रतिषेधात् पूतः पूतवान् पूत्वेति, अकित्वपक्षे त्विटि पवितः पवितवान् पवित्वेति भवति, सेड्ग्रहणं तु विच्छिद्येत; तस्मात्सेडित्यस्मिन्नुतार्थमनुवर्तमाने ऽपूङ्श्चऽ इत्यारभ्य उतरत्र वाग्रहणमिह नित्यतासिद्ध्यर्थम्, पुवित्वेति पक्षे मा भूतदाह-अन्यतरस्यांग्रहणं न स्वर्यते; उतरसूत्रे पुनर्वावचनादिति । न सेडिति वर्तत इति । ननु पूङ्ः परयोः क्त्वानिष्ठयोरिटो न भवितव्यम्, ऽश्युकः कितिऽ इति प्रतिषेधादत आह-पूङ्श्चेति । पूङ् परो निष्ठाप्रत्यय इत्यादि । किं पुनः कारणं साक्षात् श्रुतं क्त्वाप्रत्ययमपहारयानुवृतस्य निष्ठाप्रत्ययस्यान्वयो दर्शियत उदाहरणं च ? अत आह-क्त्वाप्रत्ययस्येति । एतदेव द्रढयति-तथा चोक्तमिति । इडाद्योः क्त्वानिष्ठयोर्नित्यमकित्वमिष्यते, ततश्च क्त्वाग्रणमुतरार्थमिति भारद्वाजीयैरेवमुक्तम् । उतरार्थमपि यदिहैव कर्तव्यं सेडित्येनेन सम्बन्धार्थम्; अन्यथा निष्ठानिवृतौ तत्सम्बद्धं सेडित्येतदपि निवर्तेत ! अनुबन्धोच्चारणं विस्पष्टार्थं न पूञो निवृत्यर्थम्; इड्विधौ पूङ् एव ग्रहणात् । पूञः क्त्वानिष्ठयोः इडभावान्नापि यङ्लुकि निवृत्यर्थम्; इड्विधावनुबन्धनिर्देशेन यङ्लुक्यपि ऽन क्त्वा सेट्ऽ इति प्रतिषेधस्य स्थितत्वात् । न च क्त्वाग्रहणसार्थ्यातस्यापि प्रतिषेधः; तस्योतरत्राप्युपयोगसम्भवात्, अनुबन्धनिर्देशस्य च निष्ठायां चरितार्थत्वात् । एवं च ऽक्त्वाग्रहणमुतरार्थम्ऽ इति वृत्तिग्रन्थस्याविरोधः, तेन पोपुवितवानिति निष्ठायां भवति । क्त्वायां तु गुणो पोपवित्वेति भवति ॥