1-2-21 उत् उपधात् भावादिकर्मणोः अन्यतरस्याम् कित् न सेट् निष्ठा
निष्ठा सेण् न किद् इति वर्तते। उदुपधाद् धातोः परो भाव आदिकर्मणि च वर्तमानो निष्ठाप्रत्ययः सेड् अन्यतरस्यां न किद् भवति। द्युतितमनेन, द्योतितमनेन। प्रद्युतितः, प्रद्योतितः। मुदितमनेन, मोदितमनेन। प्रमुदितः, प्रमोदितः। उदुपधाद् इति किम्? लिखितम् अनेन। भावादिकर्मणोरिति किम्? रुचितं कार्षापणं ददाति। सेड् इत्येव — प्रभुक्त ओदनः। व्यवस्थितविभाषा चेयम्। तेन शब्विकरणानामेव भवति। <<गुध परिवेष्टने>> — गुधितम् इत्यत्र न भवति॥
उदुपधात्परा भावादिकर्मणोः सेण्निष्ठा वा किन्न स्यात् । द्युतितम् । द्योतितम् । मुदितम् । मोदितं साधुना । प्रद्युतितः । प्रद्योतितः । प्रमुदितः । प्रमोदितः साधुः । उदुपधात्किम् । विदितम् । भावेत्यादि किम् । रुचितं कार्षापणम् । सेट्किम् । क्रुष्टम् ।<!शब्विकरणेभ्य एवेष्यते !> (वार्तिकम्) ॥ नेह । गुध्यतेर्गुधितम् ॥
<<उदुपधाद्भावादिकर्मणोरन्यतरस्याम्>> - उदुपधाद्भावादिकर्मणोः । भावे उदाहरति — मुदितमित्यादि । आदिकर्मण्युदाहरति — प्रद्युतितः प्रद्योतितः साधुरिति । आदिकर्मणि कर्तरि क्तः । उदुपधात्क , विदितमिति.॒विद ज्ञानेट इति वेत्तेः रूपम् । गुध्यतेर्गुधितमिति ।गुध परिवेष्टने॑दिवादिः सेट्कः ।
द्यौतितमिति । ऽद्यौत दीप्तौऽ नपुंसके भावे क्तः । प्रद्यौतित इति । ऽआदिकर्मणि क्तः कर्तरि चऽ इति कर्तरि क्तः । मुदितमिति । ऽमुदी हर्षे ऽ । लिखितमिति । शब्विकरणानामेवेति न तावत् स्थितमित्यशब्विकरणोऽपि लिखिः प्रत्युदाहृतः । एवं प्रभुक्त इतिं । स्थिते तस्मिन् खिटिकिटी भौवादी, क्रुशिश्च; खिटितं क्रुष्टमिति प्रक्युदाहर्तव्यम् ॥