मृषस्तितिक्षायाम्

1-2-20 मृषः तितिक्षायाम् कित् सेट् निष्ठा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मृषेर्धातोः तितिक्षायामर्थे निष्ठा सेण् न किद् भवति। तितिक्षा क्षमा। मर्षितः, मर्षितवान्। तितिक्षायामिति किम्? अपमृषितं वाक्यमाह॥

Siddhanta Kaumudi

Up

सेण्निष्ठाकिन्न स्यात् । मर्षितः । मर्षितवान् । क्षमायां किम् । अपमृषितं वाक्यम् । अविस्पष्टमित्यर्थः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मृषस्तितिक्षायाम्>> - मृषस्तितिक्षायाम् । तितिक्षा — क्षमा । सेण्निष्ठा किन्नेति — शेषपूरणमिदम् ।निष्ठा शी॑ङित्यतो निष्ठेति,न क्त्वा से॑डित्यतः सेण्नेति,असंयोगा॑दित्यतः किदिति चानुवर्तत इति भावः ।

Padamanjari

Up

इदमेव तितिक्षाग्रहणं ज्ञापकम्-अनेकार्था धातव इति; अन्यथा मृषिस्तितिक्षायामेव पठ।लेत इति तदपार्थकं स्यात् । अपमृषितमिति । अविस्पष्टमित्यर्थः ॥