1-2-1 गाङ्कुटादिभ्यः अञ्णिन् ङित्
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
The non-ञित् and non-णित् प्रत्ययाः attached to the - (1) the 'गाङ्' आदेश (that happens to the धातु 'इङ् गतौ'), and (2) the verbs of the कुटादिगण (an अन्तर्गण of तुदादिगण) - behave as if they are ङित्.
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
अतिदेशः अयम् । गाङिति इङादेशो गृह्यते, न 'गाङ् गतौ' (भ्वादिगणः) इति, ङकारस्य अनन्यार्थत्वात् । कुटादयोऽपि 'कुट कौटिल्ये' (तुदादिगणः) इत्येतदारभ्य यावत् कुङ् शब्दे (तुदादिगणः) इति । एभ्यो गाङ्कुटादिभ्यः परे अञ्णितः प्रत्यया ङितो भवन्ति, ङिद्वद् भवन्ति इत्यर्थः । गाङः - अध्यगीष्ट, अध्यगीषाताम्, अध्यगीषत । कुटादिभ्यः - कुटिता, कुटितुम्, कुटितव्यम् ; उत्पुटिता, उत्पुटितुम्, उत्पुटितव्यम् । अञ्णितिति किम् ? उत्कोटयति, उच्चुकोट, उत्कोटकः, उत्कोटो वर्तते । <!व्यचेः कुटादित्वमनसीति वक्तव्यम्!> - विचिता, विचितुम्, विचितव्यम् । अनसि इति किम् ? उरुव्यचाः ॥
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः ॥
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
गाङादेशात्कुटादिभ्यश्च परेऽञ्णितः प्रत्यया ङितः स्युः॥
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
गाङ्कुटादिभ्योऽञ्णिन्ङित् - गाङ्कुटादिभ्यो । ञ् च ण्च ञ्णौ,तौ इतौ यस्य स ञ्णित्,स न भवतीत्यञ्णित् । गाङ् च कुटादयश्चेति द्वन्द्वात्पञ्चमी । गाङिति ङकारानुबन्धात्इणो गा लुङी॑त्यस्य न ग्रहणमित्युक्तम् । नापि 'गाङ्गतौ' इत्यस्याऽत्र ग्रहणं, तत्र ङकारस्यात्मनेपदप्रापणेन चरितार्थत्वात् । इङादेशस्य गाङो ङकारो नात्मनेपदप्रापणेन चरितार्थः, स्थानिवत्त्वेनैव तत्सिद्धेः । तदाह — गाङादेशादिति । एवं च सिचो ङित्त्वे आह —
index: 1.2.1 sutra: गाङ्कुटादिभ्योऽञ्णिन्ङित्
कुट आदिर्येषामिति बहुव्रीहावन्तर्वर्तिन्या विभक्त्या पदत्वेऽपि जश्त्वं न भवति; अनुक्रियमाणरूपविनाशप्रसङ्गात् । अथ वा ऽकुट कौटिल्येऽ इति धातुपाठे योऽकारस्तेन सह सानुबन्धानुकरणं द्रष्टव्यम् । अत्र चत्वारः पक्षाः सम्भवन्ति-इत्संज्ञकेन ङ्कारेण सह सम्बन्धप्रतिपादनम्, ङितो वा इविधिः, संज्ञाकरणम्, तद्वदतिदेशो वेति । तत्राद्ये पक्षे गाङ्कुटादिभ्यः परोऽञ्णितप्रत्ययो इङ्द् उइत्संज्ञकङ्कारयुक्तः, इत्संज्ञको ङ्कारस्तस्यास्तीत्यर्थः । अत्र येषामस्ति ङ्कारो यङदीनां तेषु व्यर्थोऽनुवादः, येषां नास्ति तव्यादीनां तेषु मिथ्योद्यमित्युपक्रिममात्रमयं पक्षः । अथ द्वितीयः ? ऽगाङ्कुटादिभ्यःऽ इति पञ्चम्या ऽअञ्णित्ऽ इति प्रथमायाः षष्ठ।लं प्रकल्पितायां ङिदादेशः प्राप्नोति । अत्र प्रथमाया न च वैयर्थ्यम्, लाघवार्थंत्वात् । तत्र ङिदिति कर्मधारये, असमासे वा ऽआदेः परस्यऽ इति तव्यादीनामादेण्Çóकारः प्राप्नोति, कथं पुनरित्संज्ञको नामादेशः स्यात् स्वयं निवृत्यभिमुखः ? को दोषः ? स्थानिनं निवर्त्य निवर्तिष्यते ! स्यादेतत्-इद्ग्रहणसामर्थ्यादादेशो न भविष्यति, आदेशत्वे हि ऽलशक्वतद्धितेऽ इत्येव सिद्धेत्संज्ञेत्यागमो ङ्कारो विधास्यत इति, तन्न; अनेनेत्संज्ञा यथा स्यात् तेन मा भूदित्येवमर्थमिद्ग्रहणं स्यात् । कः पुनरत्र विशेषस्तेन वा सत्यामनेन वा ? अयमस्ति विशेषः-तेन सत्यां लोपः स्यात्, अनेन पुनर्नं । तस्येति प्रकृतपरामर्शात् तस्यैतस्य प्रकृतस्येत्संज्ञकस्येति । एवं च श्रूयमाण एव ङ्कारे ङ्त्कार्याइणि भवन्ति । तत्र ऽनेड्वशि कृतिऽ इत्यत्र वरमनादौ कृतीति यदि परिगणनम्, तदात्र प्रतिषेधाभावात् कुटिङ कुटिङ्मिति प्राप्नोति । अथ तु सम्भवोदाहरणप्रदर्शनम्, तदात्रापि प्रतिषेधात् कुट्ङ कुट्ङ्मिति प्राप्नोति । बहुव्रीहौ तु येऽमी प्रसिद्धा ङ्तिश्च ङदयस्य एव तृजादीनामादेशाः स्युः । न चान्तर्यतो व्यवस्था, यत्र खल्वन्तरतमस्यानन्तरतमस्य च प्रसङ्गस्तत्रान्तरतमपरिभाषा । न चात्रान्तरतमानां तव्यङदीनां प्राप्तिः; लोके शास्त्रे वा तेषामप्रसिद्धेः । न चान्तरतमपरिभाषैव तान् कल्पयितुमर्हति; नियामकत्वातस्याः । सन्तु वा तव्याङ्दयः, तेऽपि त्वादेशा भवन्तः ऽडिच्चऽ इत्यन्त्यस्यैव स्युः । ननु च नात्र श्रौतः स्थान्यादेशभावः, किं तर्हि ? गाङ्कुटादिभ्यः परोऽञ्णित्प्रत्ययो इङ्द् इत्संज्ञकङ्कारयुक्त इति सिद्धानुवादमात्राक्षरव्यापारः । स तु सिद्धानुवादौ विधानमन्तरेण नोपपद्यते इति ङ्कारस्येत्संज्ञकस्य विधिः कल्प्यते । किमतः ? यद्येवम्, इदं ततो भवति विधिवाक्यस्याश्रुतत्वात् क्व परिभाषाङ्गतामुपेयात् - ऽषष्ठी स्थानेयोगाऽ इति वा, ऽआदेः परस्यऽ इति वा, ऽडिच्चऽ इति वा ? नैतदस्ति, यस्मात् षष्ठीप्रकल्पेनेन श्रौत एव स्थान्यादेशभाव उपपादितः । अस्तु वा कल्पितविधानम्, य एव त्वसौ विधिः कल्प्यते, तत्रैव परिभाषाङ्गभावमुपैति; विध्यङ्गत्वात्परिभाषाणाम् । परिभाषाः खलु विधेरङ्गभूता अनुवादवाक्यश्रुतार्थान्यथानुपपत्या विधिवाक्यमेव कल्पन्ते इति सर्वथा दुष्ट एवायं पक्षः । संज्ञाकरणे ऽक्ङिति चऽ इत्यत्रास्य ग्रहणं न स्यात्; संज्ञारूपस्यानुच्चारितत्वात् । ङ्च्छिब्दः संज्ञा, डिच्छब्दश्चोच्चारितः प्रत्येकसम्बन्धमपीद्ग्रहणं किद् यस्येत्येतावदेव सम्पादयेत् । न बान्वर्थाऽवयवद्वययुक्ता संज्ञेति प्रत्यभिज्ञाभावात् क्ङ्त्प्रिदेशेष्वस्य ग्रहणं न स्यादेव । तथा केवले ङ्च्छिब्द उच्चारिते तस्यैव ग्रहणं स्याद्, नयङदीनाम्; कृत्रिमाकृत्रिमयोः कृत्रिमे कार्यसम्प्रत्ययात् । ततश्च ग्रहिज्यादिसम्प्रसारणं गृह्णातीत्यादावेन स्याद्, न जरीगृह्यतेत इत्यादौ । न च यङदीनां ङ्त्कारिणस्य वैयर्थ्यम्; क्ङ्त्प्रिदेशेषु यत्र संज्ञारूपं न प्रत्यभिज्ञायते तत्र ग्रहणार्थत्वात् । ननु चैवं गाह्कुटादिभ्यः परस्य ङ्त्सिंज्ञाविधानमनर्थकमापद्यते, कथम् ? क्ङ्तिप्रदेशेष्वस्य ग्रहणं नास्तीत्युक्तमेव । केवलश्च हिच्छब्दो ग्रहिज्यादिसूत्र एव, न च तत्र गाङ् गृह्यते, नापि सर्वे कुटादयः, किं तु व्यतिरेक एव सत्यम्; न्यायागतेऽर्थे किं कुर्मः ! त्यज्यतामयं पक्षः । तदेवमेतेषां पक्षाणां दुष्टत्वात् चतुर्थं पक्षमाश्रित्याह-अतिदेशोऽयमिति । इङदेशो गृह्यते इति । ऽइङ्श्चऽऽगाङ् लिटिऽ ऽविभाषा लुङ्लृङेःऽ इति विहितः । ङ्कारस्यानन्यार्थत्वादिति । इङदेशस्य हि यो ङ्कारस्तस्यैतदेव प्रयोजनम् - इह तस्यैव ग्रहणं यथा स्यादिति । अथ सामान्यग्रहणं कस्मान्न भवति ? असमानत्वादादेशस्य । ङ्कारोऽन्यार्थः; आत्मनेपदस्य स्थानिवद्भावेनैव सिद्धत्वात्, धातोस्तुचरितार्थः । यद्येवम्, आब्ग्रहणे चाप एव ग्रहणं प्राप्नोति, पकारस्यानन्यार्थत्वात्,न; एवं हि चापोऽनुबन्धावनर्थकौ स्याताम्, टापश्च टकारः । अतो यच्च यावच्च समानं सम्भवति चरितार्थपित्वमचरितार्थपित्वमपि तत्सर्वमाश्रीयते, न चाब्रूपमेवयावत् । कुङ्शब्द इति । तदनन्तरं वृत्करणाद् ऽआकूतम्ऽ इति प्रयोगदर्शनात् ऽकूङ् दीर्घान्तो द्भवतीत्यर्थःऽ इत्यन्तरेणापि वतिं वत्यर्थो गम्यते, यथा-सिंहो माणवक इति । यद्ययमतिदेशः, ऽअसंयोगाल्लिट् किद्ऽ इति प्रकरणेऽपि कित्कार्यातिदेशोऽङ्गीकर्तव्यः, ततश्च सिसृक्षतीत्यत्र सत्यपि ऽहलन्ताच्चऽ इति सनः कित्वातिदेशे स्वाश्रयमकित्वमाश्रित्य ऽसृजिदृशोःऽ इत्यमागमः प्राप्नोति । अतिदेशेन पराश्रयं कार्यं प्राप्यते, न तु स्वाश्रयं निवर्त्यते । सिद्धं तु प्रसज्यप्रतिषेधात् किति न भवतीति । ततश्च स्वाश्रयस्य कार्यस्याभावादातिदेशिककित्वाश्रयः प्रतिषेधो भविष्यति । इह तर्हि उच्चुकुटिषति-ऽङ्तिःऽ इत्यात्मनेपदं प्राप्नोति ? इङितो धातोरात्मनेपदमुच्यते, इह चातिदेशेन सन एव ङ्त्विम्, न धातोः । यत्रावयवे लिङ्गमचरितार्थं तत्र समुदायस्य विशेषकं भवति; इह त्ववयव एव गुणप्रतिषेधादिकं ङ्त्विस्य प्रयोजनमस्ति । यङ्न्तादपि तर्हि न प्राप्नोति, तस्मान्नैवं शक्यं विज्ञातुम् - इङितो धातोरिति, ततश्चैकं सनमेव ङ्तिमाश्रित्यात्मनेपदं प्राप्नोति ? नैष दोषः, सप्तमीसमर्थाद्वतिः-ङ्तीवि त् । ननु च नात्र वतिर्निर्दिश्यते, सत्यम्; परत्र परशब्दप्रयोगात् कल्प्यमानो वतिर्व्याख्यानात् सप्तम्यन्तादाश्रीयते । एवमपि प्रतियोगिनि सप्तमी प्राप्नोति-अञ्णितीति ? एवं तर्हि ऽअनुदातङ्तिःऽ इत्यत्र ऽउपदेशेऽ इति वर्तते, उपदेशे यो ङ्त्, तित आत्मनेपदं भवति । अध्यगीषतेति । ऽविभाषा लुङ्लृङेऽ इति गाङदेशः,ऽआत्मनेपदेष्वनतःऽ घुमास्थादिसूत्रेणेत्वम् । व्यचेरित्यादि । ऽव्यच व्याजीकरणेऽ तुदादौ कुटादिभ्यः प्राक् पठ।ल्ते । उद्विचितेति । ग्रहिज्यादिना सम्प्रसारणम् । उरुव्यचा इति बहुव्रीहिः । कथं विव्यचिथ ? ऽअनसिऽ इति पर्युदासोऽयमसुन्प्रत्ययस्य कृत्वा तत्सदृशो कृति कार्यं विज्ञायते । कथं लिखितुम्, स्वयमेव लिखिष्यते, यावता कुटेः पूर्वं लिखिः पठ।ल्ते ? कश्चिदाह-' कुटस्यादिः, कुट आदिर्येषां ते कुटादयः, कुटादिश्श्च कुटादयश्चेति बहूव्रीहितत्पुरुषयोः सहविवक्षायाम् ऽस्वरभिन्नानां यस्योतरस्वरविधिः स शिष्यतेऽ इति बहुव्रीहेः शेषः । तत्र तत्पुरुषवृतया संगृहीतो लिखिरपि ङ्त्विस्य निमितम्' इति । एवं तु लिखित्वा, लेखित्वा; लिलिखिषति, लिलेखिषति; ऽशकुनिष्वालेखनेऽ इत्यनुपपन्नं स्यात् । तस्माद्यद्यवश्यमुपपादनीयम् - ऽसंज्ञापूर्वको विधिरनित्यःऽ इति गुणो न भविष्यति । ऽधू विधूननेऽ, कुटादिः, तस्य ऽअर्तिलूधूसूखनसहचर इत्रःऽ इतीत्रप्रत्यये गुणो न प्राप्नोति । नात्र गुण इष्यते, धुवित्रमित्येव भवति, कल्पसूत्रकाराणां तु प्रयोगाश्छान्दसत्वादुपपादनीयाः । अथ वा -ऽभञ्जभासमिदो घुरच्ऽऽविदिभिदिच्छिदेर्ङ्द्ऽ ईति वक्तव्ये प्रत्ययान्तरकरणं ज्ञापकम् - आतिदेशिकं ङ्त्विमनित्यमिति ॥