विभाषोपयमने

1-2-16 विभाष उपयमने कित् आत्मनेपदेषु सिच् यमः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यमः सिजात्मनेपदेष्विति वर्तते। यमेर्धातोरुपयमने वर्तमानात् परः सिच् प्रत्ययो विभाषा किद् भवत्यात्मनेपदेषु परतः। उपायत कन्याम्, उपायंस्त कन्याम्। उपायत भार्याम्, उपायंस्त भार्याम्। उपयमनं स्वीकरणम्, विवाहः, दारकर्म, पाणिग्रहणमित्यर्थः। <<उपाद् यमः स्वकरणे>> (१.३.५६) इत्यात्मनेपदम्॥

Siddhanta Kaumudi

Up

यमः सिच् किद्वा स्याद्विवाहे । रामः सीतामुपायत । उपायंस्त वा । उदवोढेत्यर्थः । गन्धनाङ्गे उपयमे तु पूर्वविप्रतिषेधान्नित्यं कित्त्वम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up