1-2-15 यमः गन्धने कित् आत्मनेपदेषु सिच्
सिच् आत्मनेपदेष्विति वर्तते। यमेर्धातोर्गन्धने वर्तमानात् परः सिच् प्रत्ययः किद् भवत्यात्मनेपदेषु परतः। गन्धनं सूचनम्, परेण प्रच्छाद्यमानस्यावद्यस्याविष्करणम्। अनेकार्थत्वाद् धातूनां यमिस्तत्र वर्तते। उदायत उदायसाताम्, उदायसत। सूचितवान् इत्यर्थः। सिचः कित्त्वादनुनासिकलोपः। <<आङो यमहनः>> (१.३.२८) इत्यात्मनेपदम्। गन्धन इति किम्? उदायंस्त पादम्। उदायंस्त कूपाद् उदकम्४। उद्धृतवान् इत्यर्थः। सकर्मकत्वेऽपि <<समुदाङ्भ्यो यमोऽग्रन्थे>> (१.३.७५) इत्यात्मनेपदम्॥
सिच्कित्सयात् । गन्धनं सूचनं परदोषाविष्करणम् । उदायत । गन्धने किम् ? उदायंस्त पादम् । आकृष्टवानित्यर्थः ॥
<<यमो गन्धने>> - यमो गन्धने । सिच्कित्स्यादिति । शेषपूरणम् । सिचः कित्त्वे मकारस्य 'अनुदात्तोपदेशे' ति लोपः ।
ननु यमिरुपरमे पठ।ल्ते, कथं गन्धने वर्तत इत्यत आह - अनेकार्थत्वादिति । उदायतेति । परावद्यं स्वयं प्रकाशितवानित्यर्थः । उदायंस्त पादमिति । अपकृष्टवानित्यर्थः ॥