हनः सिच्

1-2-14 हनः सिच् कित् आत्मनेपदेषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

हन्तेर्धातोः परः सिच् किद् भवति। आहत, आहसाताम्, आहसत। सिचः कित्त्वाद् अनुनासिकलोपः। सिज्ग्रहणं लिङ्निवृत्त्यर्थम्, उत्तरत्रानुवृत्तिर्मा भूत्। आत्मनेपदग्रहणमुत्तरार्थमनुवर्तते। इह तु परस्मैपदे हन्तेर्वधभावस्य नित्यत्वात् कित्त्वस्य प्रयोजनं नास्ति॥

Siddhanta Kaumudi

Up

कित्स्यात् । अनुनासिकलोपः । आहत । आहसाताम् । आहसत ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<हनः सिच्>> - हनः सिच् ।कित्स्या॑दिति शेषपूरणम् ।असंयोगाल्लिट्कि॑दित्यतस्तदनुवृत्तेरिति भावः । हनधातोः परः सिच् कित्स्यादिति फलितम् । अनुनासिकलोप इति । 'अनुदात्तोपदेशे' इति नकारलोप इत्यर्थः । उत् आ यम् स् त इति स्थिते -

Padamanjari

Up

सौत्रत्वान्निर्देशस्याल्लोपो न कृतः । आहसतेति ।ऽआङे यमहनऽ इत्यात्मनेपदम्, ऽआत्मनेपदेष्वनतःऽ इत्यदादेशः । सिज्ग्रहणं लिङ्निवृत्यर्थमिति । प्रकृतं सिज्ग्रहणं लिङ्संबद्धमिति तदनुवृतौ तस्याप्यनुवृत्तिः स्यादिति भावः । ननु च ऽहनो वध लिङ्ऽ ईति लिङ् विधादेशो नित्यः, धानिषीष्टेति चिण्वदिटि वधादेशाभावेऽप्यझलादित्वादप्रसङ्गस्तत् किं लिङ्निवृत्येत्यत्राह-उक्षरत्रेति । उतरार्थमवश्यं सिज्ग्रहणं कर्तव्यम्, तदिहैव क्रियते, न्यायानुसरणे प्रतिपतिगौरवं मा भूदित्येवमार्थमित्यर्थः । आत्मनेपदग्रहणमित्यादि । यमः परस्मैपदेषु ऽयमरमनमाताम्ऽ इति सगिटौ भवत इति झलादिः सिज्न भवति । उपयमने तु नित्यमात्मनेपदम्, स्थाध्वोः परस्मैपदेषु सिचो लुग् भवति,ऽवा गमःऽ इत्यत्रापि परस्मैपदेष्वङ् भवति, लीङ् यासुट्निवृत्यर्थमेव च झल्ग्रहणमनुवर्त्यम्, एवमस्मिन्नप्यधानिषातामिति चिण्वदिटि मा भूदिति, तदेवम् ऽवा गमःऽ इत्यारभ्यात्मनेपदग्रहणं चिन्त्यप्रयोजनम् । किमर्थं पुनरिदम्, यावता आत्मनेपदं ङिति सिजन्तस्याङ्गस्य ऽअनिदिताम्ऽ इत्येव नलोपः सिद्धः, उच्चारणार्थो हि सिच इकारः, नानुबन्धः ? ज्ञापनार्थम् । एतज् ज्ञापयति-ऽन सिजन्तस्योपधालोपो भवतिऽ इति । तेनामास्तेति सिद्धं भवति । ननु च सिचि ऽअनुदातोपदेशऽ इति लोपो यथा स्याद्, आत्मनेपदे उपधालोपो मा भूदित्येवमर्थमिदं स्यात्, कः पुनरत्र विशेषः-सिचि वा लोपो भवतु, आत्मनेपदे वा ? अयमस्ति विशेषः-आत्मनेपदे लोपे सति ऽअतो लोपःऽ प्राप्नोति, सिचि तु न; आभीयस्यानुनासिकलोबस्यासिद्धत्वात् । यद्यपि उपधालोपोऽप्याभीयस्तथापि व्याश्रयत्वादसिद्धत्वं न प्राप्नोति-आत्मनेपदे उपधालोपः, सिच्यतो लोपः । यद्येवम्, बहिरङ्ग उपधालोपः, बहिर्भूतात्मनेपदापेक्षत्वाद्; अन्तरङ्गोऽल्लोपः, अन्तर्भूतसिजपेक्षत्वात् ऽअसिद्धं बहिरङ्गमन्तरङ्गेऽ । ननु चैषा परिभाषाप्याभाच्छास्त्रीया ऽवाह ऊठऽ इत्यत्र ज्ञापितेति तस्यामन्तरङ्गबहिरङ्गयोरसिद्धत्वाद् यथा पपुष इत्यादावल्लोपादिषु वसोः संप्रसारणस्यासिद्धत्वं न भवति, तथात्रापि न स्यात्, ततश्चातो लोपः स्यादिति सिच्येवानुनासिकलोप एषितव्य इति वक्तव्यमेव सिचः कित्वमिति ज्ञापकानुपपतेः, अमंस्तेत्यादावुपधालोपः स्यात् । तस्मात् सिच इकारोऽनुबन्ध एव, नौच्चारणार्थः । तेन ऽअदिताम्ऽ इति प्रतिषेधादुपधालोपाभावः । ऽइदितो नुम्ऽ इत्यत्र धातुग्रहणं सिजन्तनिवृत्यर्थमेव क्रियते, न धातूपदेशावस्थायामेव नुम् यथा स्यादित्येवमर्थम् । कुण्डेत्यादिसिद्धये च यत्नान्तरमास्थेयमिति केचित्; नेति वयम् । उपधालोपेऽपि नातो लोपेन भवितव्यम् । किं कारणम् ? ऽउपदेशऽ इति वर्तते उपदेशे योऽकारान्तस्तस्य लोपः, इहापि तर्हि न प्राप्नोति - ऽधिन्विकृण्व्योर चऽ धिनुतः, कृणुतः, नोपदेशग्रहणेन प्रकृतिरभिसम्बध्यते - उपदेशे या प्रकृतिरकारान्तेति, किं तर्हि ? आर्धधातुकमभिसम्बध्यते - आर्द्धधातुकोपदेशे यदकारान्तं तस्येति । तदेवमुपधालोपेऽपि न कश्चिद्दोष इति ज्ञापकार्यमेव वचनमिति सर्वमनाकुलम्॥