1-2-13 वा गमः कित् लिङ्सिचौ आत्मनेपदेषु
index: 1.2.13 sutra: वा गमः
लिङ्सिचावात्मनेपदेषु इति वर्तते । गमेर्धातोः परौ लिङ्सिचौ आत्मनेपदेषु झलादी वा कितौ भवतः । संगंसीष्ट, संगसीष्ट । सिचः खल्वपि - समगंस्त, समगत । कित्त्वपक्षे अनुनासिकलोपो भवति अनुदात्तोपदेशवनतितनोत्यादीनाम् 6.4.37 इति ॥
index: 1.2.13 sutra: वा गमः
गमः परौ झलादी लिङ्सिचौ वा कितौ स्तः । संगसीष्टा - संगंसीष्ट । समगत - समगंस्त । समृच्छिष्यते । अकर्मकाभ्यां किम् ? ग्रामं संगच्छति ।<!विदिप्रच्छिस्वरतीनामुपसंख्यानम् !> (वार्तिकम्) ॥ वेत्तेरेव ग्रहणम् । संवित्ते । संविदाते ॥
index: 1.2.13 sutra: वा गमः
वा गमः - वा गमः । 'इको झल्' इत्यतो झलिति,लिङ्सिचावात्मनेपदेषु॑ इत्यतो लिङ्सिचाविति, 'असंयोगाल्लिट्' इत्यतः किदिति चानुवर्तते । तदाह — गमः परावित्यादि । समगतेति । लुङि रूपम् । सिचः कित्तवपक्षे 'अनुदात्तोपदेशे' ति मकारलोपेह्रस्वादङ्गादि॑ति सिचो लुक् । समृच्छते इति ।ऋच्छ गतीन्द्रियप्लयमूर्तिभावेषु॑ इति तौदादिकस्य रूपम् । अत्र तौदादिकस्य ऋच्छतेरेव ग्रहणं, नतु ऋच्छादेशस्येति सूचयितुं लृडन्तमप्युदाहरति — समृच्छिष्यते इति । विदिप्रच्छिस्वरतीनामिति । सम इत्यनुवर्तते । संपूर्वेभ्यो विदिप्रच्छिस्वरतिभ्य आत्मनेपदमित्यर्थः । वेत्तेरिति । लुग्विकरणस्यैव विदेग्र्रहणमित्यर्थः । व्याख्यानादिति भावः ।