उश्च

1-2-12 उः च कित् लिङ्सिचौ आत्मनेपदेषु

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ऋवर्णान्ताद् धातोः परौ लिङ्सिचावात्मनेपदेषु झलादी कितौ भवतः। कृषीष्ट। हृषीष्ट। सिचः खल्वपि — अकृत। अहृत। झल् इत्येव — वरिषीष्ट। अवरिष्ट। <<वृृतो वा>> (७.२.३८) — अवरीष्ट॥

Siddhanta Kaumudi

Up

ऋवर्णात्परौ झलादी लिङ् तङ्परः सिच्चेत्येतौ । कितौ स्तः । भृषीष्ट । भृषीयास्ताम् । अभार्षीत् । अभार्ष्टाम् । अभार्षुः ॥

Laghu Siddhanta Kaumudi

Up

ऋवर्णात्परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। भृषीष्ट। भृषीयास्ताम्। अभार्षीत्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<उश्च>> - आशीर्लिङि भृषीष्टेत्यत्र गुणे प्राप्ते — उश्च ।लिङ्गिचावात्मनेपदेषु॑ इति सूत्रमनुवर्तते ।इको झ॑लित्यतो झलिति च । तदाह — ऋवर्णादिति । भृषीष्टेति । कित्त्वान्न गुणः । अभार्षीदिति । परस्मैपदे सिचि वृद्धौ रपरत्वम् ।

Padamanjari

Up

लिङसिज्भ्यामाक्षिप्तस्य धातोरुरित्यनेन तदन्तविधिरित्याह- ऋवर्णान्तादिति । ऽऋ गतौऽ इत्यस्य तु ग्रहणं न भवति; ऽसर्तिशास्त्यर्तिश्चऽ इत्यङे विधानेन सिचोऽसम्भवात् । नन्वङ्विधौ कर्तरीत्यनुवृतेः कर्मणि सिजपि सम्भवति, एवं तर्हि शैलीयमाचार्यस्य यत्रास्य धातोर्ग्रहणमिच्छति तत्र श्तिपा निर्देशं करोति-ऽअर्तिपिपर्त्योश्चऽ,ऽसर्तिशास्त्यर्तिभ्यश्चऽ इति स्वरूपेणापि ग्रहणं दृष्टम् । एवं तर्हि व्याप्तिन्यायाद्वर्णग्रहणम् । अकृतेति । ऽह्रस्वादङ्गात्ऽ इति सिचो लोपः । अवरिष्टेति । ऽलिङसिचोरात्मनेपदेषुऽ इतीट् । ऽवा गमःऽ । संगंसीष्टेति । ऽसमो गम्यर्च्छिऽ इत्यात्मनेपदम् ॥