1-2-11 लिङ्सिचौ आत्मनेपदेषु कित् इकः झल् हलन्तात् च
index: 1.2.11 sutra: लिङ्सिचावात्मनेपदेषु
हलन्ताद् इको झल् कितिति वर्तते । सन् इति निवृत्तम् । इगन्तात् इग्समीपाद् हलः परौ झलादी लिङ्सिचावात्मनेपदेषु परतः कितौ भवतः - भित्सीष्ट, भुत्सीष्ट । सिचि खल्वपि - अभित्त, अबुद्ध । इकः इत्येव - यक्षीष्ट, अयष्ट । सम्प्रसारणं हि स्यात् । आत्मनेपदेषु इति किम् ? अस्राक्षीत् , अद्राक्षीत् । सृजिदृशोर्झल्यमकिति 6.1.58 इत्यमागमो न स्यात् । हलन्तादित्येव - चेषीष्ट, अचेष्ट । गुणो न स्यात् । झलित्येव - वर्तिषीष्ट, अवर्तिष्ट । गुणो न स्यात् । लिङ्सिचौ इति किम् ? द्वेष्टा, द्वेक्ष्यते ॥
index: 1.2.11 sutra: लिङ्सिचावात्मनेपदेषु
इक्समीपाद्धलः परौ झलादी लिङ् आत्मनेपदपरः सिच्चेत्येतौ कितौ स्तः । कित्त्वान्न गुणः । तिप्सीष्ट । तिप्सीयास्ताम् । तिप्सीरन् । लुङि । झलौ झलि-<{SK2281}> इति सलोपः । अतिप्त । अतिप्साताम् । अतिप्सत । तेपते । तितेपे । तिष्टिपे । तिष्टिपाते । तिष्टिपिरे । तिष्टिपे । तिष्टेपाते । तिष्टेपिरे ॥ तेपृ कम्पने च ।{$ {!366 ग्लेपृ!} दैन्ये$} । ग्लेपते ।{$ {!367 टुवेपृ!} कम्पने$} । वेपते ।{$ {!368 केपृ!} {!369 गेपृ!} {!370 ग्लेपृ!} च$} । चात्कम्पने गतौ च । सूत्रविभागादिति स्वामी । मैत्रेयस्तु चकारमन्तरेण पठित्वा कम्पने इत्यपेक्षत इत्याह । ग्लेपेरर्थभेदात्पुनः पाठः ।{$ {!371 मेपृ!} {!372 रेपृ!} {!373 लेपृ!} गतौ$} ।{$ {!374 त्रपूष्!} लज्जायाम्$} । त्रपते ॥
index: 1.2.11 sutra: लिङ्सिचावात्मनेपदेषु
इक्समीपाद्धलः परौ झलादी लिङ्सिचौ कितौ स्तस्तङि। धुक्षीष्ट॥
index: 1.2.11 sutra: लिङ्सिचावात्मनेपदेषु
लिङ्सिचावात्मनेपदेषु - लिङ् । इको झलिति, हलन्ताच्चेति च सूत्रमनुवर्तते ।असंयोगा॑दित्यतः किदिति च । इक इति सामीप्ये षष्ठी, हलि अन्वेति । तदाह — इक्समीपादित्यादिना । आत्मनेपदपरकत्वं सिच एव विशेषणं, न तु लिङः, लिङादेशस्यात्मनेपदस्य लिङः परत्वाऽसंभवात् । इकः किम् ।वह्वक्षीष्ट । सति तु कित्त्वेवचिस्वपी॑ति संप्रसारणं स्यात् । आत्मनेपदेषु किम् । अद्राक्षीत् । इह कित्त्वे सतिसृजिदृशोर्झल्यमकिती॑त्यम्न स्यात् । अतिप्तेति । लुङस्तादेशे, च्लिः, सिच् ।झलो झली॑ति लोपः । आत्मनेपदपरकत्वेन सिचः कित्त्वान्न लघूपधगुणः । अथ तेपृधातोरेदुपधत्वस्य प्रयोजनमाह — तितेपे इति । इदुदुपधत्वे तु कित्त्वाद्गुणो न स्यादिति भावः । सेट्कोऽयमिति सूचयति — तेपितेति । तेपिषीष्ट । अतेपिष्ट । ष्टिपृधातोस्तु 'धात्वादेः षः स' इति सत्वे ष्टुत्वनिवृत्त्या लटि स्तेपत इति रूपं सिद्धवत्कृत्य लिटि रूपमाह — तिष्टिप इति । 'शर्पूर्वाः खयः' इति तकारः शिष्यते, षकारस्य निवृत्तौ ष्टुत्वनिवृत्तेः । कित्त्वान्न गुणः । तिष्टेप इति । ष्टेपृधातो रूपम् । तेपृ कम्पने चेति । चात्क्षरणे । वस्तुतस्तु चकारेण क्षरणार्थस्य लाभात्पूरवत्रास्य पाटस्त्यक्तुं शक्यः । केचित्तुदेपृ॑इति वर्गतृतीयादिं पठन्ति । चात्कम्पने गतौ चेति । अनुक्तसमुच्चयार्थश्चकार इति भाव- । एतच्च टु वेपृ केपृ गेपृ कम्पन इत्येव सिद्धे पृथ॒क्पाठाल्लभ्यते । अर्थभेदादिति । ग्लेपृ दैन्ये॑ इति पूर्वं पठितम् । #इह त्वर्थभेदात्पुनः पाठः । अन्यथाग्लेपृ दैन्ये कम्पने गतौ चे॑ति गौरवं स्यादिति भावः । त्रपूषिति । ऊकारः षकारश्च इत् । अदुपधः ।
index: 1.2.11 sutra: लिङ्सिचावात्मनेपदेषु
आत्मनेपदेषु परत इति । एतत्सिच एव विशेषणम्, न लिङ्परस्मैपदस्य; झल्ग्रहणानुवृत्यैव व्यावर्तितत्वात् । भित्सीष्टेति । भिदिः स्वरितेत्, ऽलिङ्ः सीयुट्ऽ,ऽसुट् तिथोःऽ । भुत्सीष्टेति । बुधिरनुदातेत्, पूर्ववद् भष् । अबुद्धेति । च्लेः सिच्ऽ, झलो झलिऽ, ऽझषस्तथोर्धोऽधःऽ,ऽझलां जश् झशिऽ इति धकारस्य दकारः । यक्षीष्टेति । स्वरितेत्वादात्मनेपदम्, व्रश्चादिषत्वम्, ऽषढोः कः सिऽ । अद्राक्षीदिति । अमागमे यणि च कृते ऽवदव्रजऽ इत्यकारस्य वृद्धिः ॥