उदात्तस्वरितयोर्यणः स्वरितोऽनुदात्तस्य

8-2-4 उदात्तस्वरितयोः यणः स्वरितः अनुदात्तस्य पदस्य पूर्वत्र असिद्धम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

उदात्तयणः स्वरितयणश्च परस्यानुदात्तस्य स्वरित आदेशो भवति। उदात्तयणः — कु॒मा॒यौ᐀्॑,कु॒मा॒र्यः॑। उदात्तनिवृत्तिस्वरेण ६.१.१६१ अयमीकार उदात्तः, तस्य स्थाने यणादेशः, स उदात्तयण्, तस्मात् परस्यानुदात्तस्य स्वरित आदेशो भवति। स्वरितयणः — स॒कृ॒ल्ल्व्या॑शा। ख॒ल॒प्व्या॑शा। स॒कृ॒ल्लूः, ख॒ल॒पूरिति कृत्स्वरेण ६.२.१३९ अन्तोदात्तौ, तयोः <<ओः सुपि>>६.४.८३ इति यणादेशः, स उदात्तयण्, ततः परस्य सप्तम्येकवचनस्य स्वरितत्वम्, तस्य यणादेशः स्वरितयण्, तस्मात् स्वरितयणः परस्याशाशब्दाकारस्यानुदात्तस्य स्वरितो भवति। ननु च सप्तम्येकवचनस्य यदुदात्तयण इति स्वरितत्वम्, तदसिद्धं यणादेशे, तत् कथमयं स्वरितयण् भवति ? आश्रयात् सिद्धत्वं भविष्यति। यद्येवम् <<उदात्तादनुदात्तस्य स्वरितः>> ८.४.६६ इत्येतस्याप्याश्रयात् सिद्धत्वं प्राप्नोति। ततश्च दध्याशेत्यत्रापि स्वरितः स्यात् ? तस्मादयमेव यण्स्वरो यणादेशे सिद्धो वक्तव्यः। केचित् तु ब्रुवते — उदात्तात् स्वरितयणोऽपि परस्यानुदात्तस्य स्वरितत्वं दृश्यते। तथा च तैत्तिरीयके शाखान्तरे पठ्यते — यास्ते॒ विश्वाः॑ स॒मिधः॒ सन्त्य॑ग्ने॒ (तै०सं० ३.५.५.३) इति। अग्न इत्ययमकारः स्वरितः पठ्यते। तथा ब्राह्मणेऽपि दध्या॑शयति (तै०ब्रा० १.७.६.५) इत्याकारः स्वरितः पठ्यत इति। यथा तु वार्त्तिकं भाष्यं च तथा उदात्तात् स्वरितयण्ाः परस्यानुदात्तस्यानेन स्वरितत्वं न भवतीति स्थितम्। तथा च भाष्ये स्वरितयण्ग्रहणमिदं प्रत्याख्यायते, स॒कृ॒ल्ल्व्या॑शा इत्येवमादावुदात्तयण इत्येव स्वरितस्य सिद्धत्वात्। स्वरितयण्व्यवधानमव्यवधानमेव — <<स्वरविधौ व्यञ्जनमविद्यमानवत्>> इति। तत् तु क्रियते, पूर्वस्मादपि विधौ स्थानिवद्भावाद् व्यवधानमस्ति, स्वरदीर्घयलोपेषु च लोपाजादेशस्य स्थानिवद्भावः प्रतिषिध्यत इति। उदात्तस्वरितयोरिति किम् ? बैदी॒ आ॒शा बैद्या॒शा। शार्ङ्ग॑रव्या॒शा। अनुदात्तयणादेशोऽयम्। अनुदात्तस्येति किम् ? कु॒मा॒र्यत्र॑। कि॒श॒ोर्यत्र॑। अत्रेत्ययमाद्युदात्तो लित्स्वरेण ६.१.१९३

Siddhanta Kaumudi

Up

उदात्तस्थाने स्वरितस्थाने च यो यण् ततः परस्यानुदात्तस्य स्वरितः स्यात् । अभ्यभि हि । स्वरितस्य यणः । खलप्व्याशा । अस्य स्वरितस्य त्रैपादिकत्वेनासिद्धत्वाच्छेषनिघातो न ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ठुदातस्वरितयोःऽ इत्यनुवादेऽपि स्थानषष्ठ।लेषा; व्याख्यानात् । तेन उदातस्वरितयोः समीपवर्ती यो यण् ततः परस्यानुदातस्य स्वरितत्वं न भवति । सकृल्ल्व्याशा, खलप्व्याशा इति । ततः परस्य सप्तम्येकवचनस्य स्वरितत्वमिति । केन ? इत्यत आह - उदातयण् इत्यनेनेति । योऽयमस्मिन्सूत्रे पूर्वो भागः, तेनेत्यर्थः । ठुदातयणो हल्पूर्वात्ऽ इत्युदातत्वं तु न भवति,'नोङ्दात्वोः' इति प्रतिषेधात्, आशाशब्दः ठाशाया अदिगाख्या चेत्ऽ इति अन्तोदातत्वादनुदातादिः । तत्कथमयं स्वरितयण् भवतीति । न कथञ्चित्, न ह्ययं स्वरितमपनीय तत्स्थाने भवति । न हि पूर्वं शास्त्रं स्थानिबुध्या आदेशे प्रवर्तते, किं तर्हि ? स्थानिन्येव । यथोक्तम् -'हत इत्येतद् द्विरुच्यते' इति, न पुनस्तद्वुध्या ढशब्दो द्विरुच्यत इति । आश्रयादिति । आहायम् - स्वरितयण इति, न चास्ति सिद्धः स्वरितः, तत्राश्रयात् सिद्धत्वं भविष्यति । एवमुच्यमानेऽतिप्रसङ्गमुद्भावयति - यद्येवमिति । दध्याशेति । दविशब्दः'नब्विषयस्यानिसन्तस्य' इत्याद्यौदातः, सेषनिघातः, ठुदातादनुदातस्य स्वरितःऽ इति तस्य स्वरितत्वम्, तस्याश्रयात्सिद्धत्वे सति तत्स्थानिकादपि यणः परस्यानुदातस्य स्वरितत्वप्रसङ्ग इत्यर्थः । तस्मादित्यादि । यत एवमाश्रयात्सिद्धत्वे दोषः, तस्मादयमेव यण्स्वरो यता सिद्धो भवति तथा वक्तव्यम् । तत्कथम् ? योगविभागः करिष्यते -ठुदातयणःऽ, उदातयणः परस्यानुदातस्य स्वरितो भवति; ततः'स्वरितयणः;, स्वरितयणश्च परस्यानुदातस्य स्वरितो भवति, उदातयण इत्येव । तेन उदातयण इत्येवं यो' भिनिर्वृतः स्वरितः, तद्यणः परस्यानुदातस्य स्वरितत्वं भवतीत्यर्थः । तेनास्यैव स्वरितस्याश्रयात्सिद्धत्वं भविष्यति । यद्येवमित्यादिना योऽतिप्रसङ्ग उद्भावितः, तं केषाञ्चिन्मतेन परिहरति - केचित्विति । उदातात्स्वरितयणो पीति । उदातात्परो यः स्वरितः ठुदातादनुदातस्यऽ इति विहितः तस्य यो यण् तस्मादपि परस्येत्यर्थः । तैतिरीयक इति । तितिरिणा प्रोक्तमधीयते तैतिरीयाः, तेषामाम्नायस्तैतिरीयकम्, चरणलक्षणो वुञ् । शाखान्तर इति । वृत्तिकारदेशे या शाखा तदपेक्षं शाखान्तरत्वम् । एकशतं ह्यध्वर्युशाखाः, विशेषवचनो वान्तरशब्दः । यास्ते विश्वा इति ।'यद्वृतान्नित्यम्' इति सन्तीत्यस्य निघातप्रतिषेधः, अग्नेशब्दस्यामन्त्रितनिघातः । ब्राह्मण इति । तत्रैव तैतिरीयके दधिशब्द उक्तस्वरः, आशयतीत्यस्य तिङ्निघातः । ननु चोभयत्राप्यत्र यणादेशे कृते ठुदातादनुदातस्य स्वरितःऽ इत्येव स्वरितः, तथा च यत्र स प्रतिषिध्यते'नोदातस्वरितोदयम्' इति, तत्र स्वरितो न दृश्यते च - स्वस्मभ्यमाभर प्रत्यग्निरुपसामग्रमख्यादिति, अयं तु स्वरित उदातस्वरितपरस्यापि भवति - दहाशसो रक्षसः पाह्यस्मानिति । तथा च भाष्येऽप्युदातपर एवानुदातेति प्रसङ्ग उद्भावितः - दध्याशेति । तस्मात् पूर्वोक्तस्यातिप्रसङ्गस्य नायं व्यभिचार इति चिन्त्यमेतत् । निराकरिष्यमाणत्वाद्वास्य नात्र सुष्ठुअ निर्बन्धनीयं दर्शयति - यथा त्विति । अत्र वार्तिकम् -'यण्स्वरो यणादेशे सिद्धो वक्तव्यः' ,'स्वरितयणः स्वरितार्थः आश्रयात्सिद्धत्वमिति चेदुदातात् स्वरिते दोषः' इति । यदि च ठुदातादनुदातस्य स्वरितःऽ इति यः स्वरितः तस्य यो यण् ततः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्याद्, दोषत्वेन वचनमनुपपन्नं स्यात् । भाष्ये तु यथायमर्थः स्थितः, तथा दर्सयति - तथा चेति । अत्र भाष्यम् - ठथ वा स्वरितग्रहणं न करिष्यते; यदि न क्रियते, केनेदानीं स्वरितयणः परस्यानुदातस्य स्वरितत्वं भवति ? उदातयण इत्येव, स्वरितयणा व्यवहितत्वान्न प्राप्नोति,'स्वरविधौ व्यञ्जनमविद्यमानवत्' इति नास्ति व्यवधानम्' इति । यदि चोदातात् स्वरितयणः परस्यानुदातस्य स्वरितत्वमिष्ट्ंअ स्यात् प्रत्याख्यानं न युज्येत । यदि प्रत्याख्यानम्, किमर्थं तर्हि स्वरितयण्ग्रहणं क्रियते ? इत्याह - तत्क्रियत इति । स्थानिवद्भावाद्व्यवधानमस्तीति । यण्स्थानिकेनेकारेण । व्यञ्जनस्य ह्यविद्यमानवद्भावः, नाचः । ननु च'न पदान्तद्विर्वचन' इति स्वरविधौ प्रतिषिद्धः स्थानिवद्भावः ? तत्राह - स्वरदीर्घेति । बैद्याशेति । बिदस्यापत्यं स्त्री ठनृष्यानन्तर्ये बिदादिभ्योऽञ्ऽ,'शार्ङ्गवाद्यञो ङीन्' , नित्स्वरेणाद्यौदातो बैदीशब्दः ॥