जिघ्रतेर्वा

7-4-6 जिघ्रतेः वा णौ चङि उपधायाः इत्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

जिघ्रतेः अङ्गस्य नौ चङि उपधाया इकारादेशो वा भवति। अजिघ्रिपत्, अजिघ्रिपताम्, अजिघ्रिपन्। अजिघ्रपत्, अजिघ्रपताम्, अजिघ्रपन्।

Siddhanta Kaumudi

Up

अजिघ्रिपत् । अजिघ्रपत् । उर्ऋत् <{SK2567}> । अचीकृतत् । अचिकीर्तत् । अवीवृतत् । अवर्तत् । अमीमृजत् । अममार्जत् ।<!पातेर्णौ लुग्वक्तव्यः !> (वार्तिकम्) ॥ पुकोऽपवादः । पालयति ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<जिघ्रतेर्वा>> - जिघ्रतेर्वा । घ्राधातोरुपधाया इद्वा स्याच्चङ्परे णावित्यर्थः । अजिघ्रप् अ त् इति स्थिते उपधाया विकल्पः । उरृदिति । धातोरुपधाया ऋकारस्य ऋद्वा चङ्परे णाविति व्याख्यातं चुरादौ । अचीकृतदिति.कृत् इ अ त् इति स्थिते ऋत्त्वपक्षे कृत् इत्यस्य द्वित्वे उरदत्वे हलादिशेषे अभ्यासचुत्वे सन्वत्त्वादित्त्वे तस्यदीर्गे रूपम् । अचिकीर्तदिति । कृत् इ अ त् इति स्थिते 'उरृ' दित्युपधाया ऋत्वाऽभावपक्षेउपधायाश्चे॑ति इत्त्वे रपरत्वे 'किर्न्' इत्यस्य द्वित्वे उत्तरखण्डेउपधायां चे॑ति दीर्घे रूपम् । अवीवृतदिति ।वृतु वर्तने॑ । णिचि लघूपधगुणं बाधित्वाउरृत् । चङिवृत्इत्यस्य द्वित्वे उरदत्वे सन्वत्तवादित्त्वं दीर्घश्चेति भावः । अववर्तदिति । ऋत्त्वाऽभावपक्षे वृद्धित्यस्य द्वित्वे उरदत्त्वे उत्तरखण्डस्य लघूपधगुणे रूपम् । लघुपरकत्वाऽभावान्न सन्वत्तवदीर्घौ । अमीमृजदिति । उपधाया ऋत्त्वपक्षे रूपम् । अममार्जिदिति । उपधाया ऋत्तवाऽभावपक्षे द्वित्वे उरदत्त्वे उत्तरखण्डेमृजेर्वृद्धि॑रिति वृद्धौ रपरत्वे रूपम् । लघुपरत्वाऽभावान्न सन्वत्त्वम् । पातर्णौ लुगिति । लुगागम इत्यर्थः । पुकोऽपवाद इति । आदन्तलक्षणपुकोऽपवादैत्यर्थः ।यद्यपि 'पाल रक्षणे' इति धातोरेव सिद्धं,तथापि पुको निवृत्तिः फलम् ।

Padamanjari

Up