7-4-43 जहातेः च क्त्वि किति हिः
जहातेरङ्गस्य हि इत्ययमादेशो भवति क्त्वाप्रत्यये परतः। हित्वा राज्यं वनं गतः। हित्वा गच्छति। जहातेर्निदेशात् जिहीतेर्न भवति। हात्वा।
हित्वा । हाङस्तु । हात्वा । अदो जग्धिः-<{SK3080}> । जग्ध्वा ॥
हित्वा। हाङस्तु - हात्वा॥
इदमपि वचनं जहानेहत्विनि मा भृदिति । श्तिपा निर्द्देशस्य तु प्रयोजनं वृतावेव दर्शितम् । यङ्लुकि जाहित्वेति भवति ॥