उदीचामातः स्थाने यकपूर्वायाः

7-3-46 उदीचाम् अतः स्थाने यकपूर्वायाः अतः इत्

Kashika

Up

index: 7.3.46 sutra: उदीचामातः स्थाने यकपूर्वायाः


उदीचामाचार्याणां मतेन यकारपूर्वायाः ककारपूर्वायाश्च आतः स्थाने योऽकारः, तस्यातः स्थाने इकरादेशो भवति। उदीचां ग्रहणं विकल्पार्थम्। इभ्यिका, इभ्यका। क्षत्रियिका, क्षत्रियका। ककारपूर्वायाः चटकिका, चटकका। मूषिकिका, मूषिकका। आतः इति किम्? साङ्काश्ये भवा साङ्काश्यिका। स्थानग्रहणमनुवादेऽपि स्थानसम्बन्धप्रतिपत्त्यर्थम्। आतः इत्यनेन ह्यतः इति स्थानी विशिष्यते। यकपूर्वायाः इति किम्? अश्वा अश्विका। यकपूर्वायाः इति स्त्रीलिङ्गनिर्देशः आतः स्त्रीप्रत्ययस्य प्रतिपत्त्यर्थम्। इह न भवति, शुभं यातीति शुभंयाः शुभंयिका। भद्रं यातीति भद्रंया भद्रंयिका। यकपूर्वाया धात्वन्तप्रतिषेधः। धात्वन्तयोः यकारककारयोरस्य प्रतिषेधस्य प्रतिषेधो वक्तव्यः। सुनयिका। सुशयिका। सुपाकिका। अशोकिका।

Siddhanta Kaumudi

Up

index: 7.3.46 sutra: उदीचामातः स्थाने यकपूर्वायाः


यकपूर्वस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । केऽणः <{SK834}> इति ह्रस्वः । आर्यका । आर्यिका । चटकका । चटकिका । आतः किम् ? सांकाश्ये भवा सांकाश्यिका । यकेति किम् ? अश्विका । स्त्रीप्रत्ययेति किम् ? शुभं यातीति शुभंयाः । अज्ञाता शुभंयाः शुभंयिका ॥<!धात्वन्तयकोस्तु नित्यम् !> (वार्तिकम्) ॥ सुनयिका । सुपाकिका ॥

Balamanorama

Up

index: 7.3.46 sutra: उदीचामातः स्थाने यकपूर्वायाः


उदीचामातः स्थाने यकपूर्वायाः - उदीचामातः । 'प्रत्ययस्थात्' इति सूत्रमनुवर्तते । यश्च कश्च यकौ, तौ पूर्वौ यस्या इति विग्रहः । यकेति वर्णग्रहणम्, अकारावुच्चारणार्थौ । 'यकपूर्वाया' इत्येतदात इत्यस्य विशेषणम् । तेन अर्थगतं स्त्रीत्वमाकारे आरोप्य 'यकपूर्वाया' इति स्त्रीलिङ्गनिर्देशः । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह — यकपूर्वस्येत्यादिना । उदीचांग्रहणं विकल्पार्थमेव नतु देशतो व्यवस्थार्थमिति 'न वेति विभाषा' इति सूत्रे बाष्ये स्पष्टम् । नच 'षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थानेग्रहणं ज्ञापकम् । अत एववृद्धिर्यस्याचामादिस्तद्वृद्ध॑मित्यत्र यस्यादिर्वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्श्तानिकत्वाऽभावात् । ततस्च शालीय इति 'वृद्धाच्छः' इति छो न स्यात्, 'औपगवीय' इत्यादावेव स्यादित्यलम् । केऽण इति ह्रस्व इति । आर्याशब्दात्स्वार्थिके कप्रत्यये यकाराकारस्य 'केऽणः' इति ह्रस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः ।प्रत्ययस्था॑दिति नित्यस्येत्त्वस्यापवादः । तदाह — आर्यका-आर्यिकेति । यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति — चटकका चटकिकेति । चटकाशब्दात्स्वार्थे कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, इत्त्वविकल्प इति भावः । साङ्खाश्यिकेति । सङ्काशेन निर्वृत्तं नगरं साङ्काश्यम् ।वृञ्छणकठ॑जित्यादिना सङ्काशिद्भ्यो ण्यः, आदिवृद्धिः,यस्येति चे॑त्यकारलोपः । साङ्काश्यशब्दाद्भवार्थेधन्वयोपधाद्वुञ् । अकादेशःयस्येति चे॑त्यकारलोपः, टाप्,प्रत्ययस्था॑दिति नित्यमित्त्वम् । इह यकारादकारस्य आकारस्थानिकत्वाऽभावादित्त्वविकल्पो न भवतीति भावः । ननु स्त्रीबोधकस्य अत इद्वा स्यादित्येवास्तु, आत इति मास्तु । साङ्काश्यकाशब्दे यकारादकारस्य वुञादेशावयवत्वेन स्त्रीबोधकत्वाभाऽदिति चेत्, तह्र्रात् इति स्पष्टार्थमित्याहुः । अइआकेति । अआआशब्दात्कः, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, अआकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वा.ञभावादित्त्वविकल्पो न, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः । स्त्रीप्रत्यय इति किमिति । 'यकपूर्वाया' इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति ।शुभ॑मिति मान्तमव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोःअन्येभ्योऽपि दृश्यते॑ इति विच् । शुभंयाशब्दात्स्वार्थे कः । 'केऽणः' इति ह्रस्वः, टाप्, शुभंयकाशब्दः । अत्र यकारादकारस्य धात्ववयवस्य स्त्रीवाचकत्वाऽभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमेवेत्त्वमिति भावः ।॒यक पूर्वे धात्वन्तप्रतिषेधः॑ इति वार्तिकमर्थतः संगृह्णाति — धात्वन्तयकोस्तु नित्यमिति । यश्च कश्चेति विग्रहः । धात्वन्तयकारककारयोरुपरि विद्यमानस्य अकारस्य नित्यमित्त्वम्, न तु विकल्प इत्यर्थः । सुनयिकेति । णीञ्धातोः पचाद्यच् ।सार्वधातुकार्धधातुकयो॑रिति गुणेऽयादेशे नयशब्दः । सु=शोभनो नयो यस्याः सा सुनया । ततः स्वार्थे कः, 'केऽणः' इति ह्रस्वः । पुनष्टाप्, सुनयकाशब्दः । अत्र यकारस्य धात्वन्तत्वात्ततः परस्याऽकारस्य नेत्वविकल्पः, किंतुप्रत्ययस्था॑दिति नित्यमित्त्वमिति भावः ।

Padamanjari

Up

index: 7.3.46 sutra: उदीचामातः स्थाने यकपूर्वायाः


यकौ पूर्वौ यस्याः सा यकपूर्वा, कोऽन्यपदार्थः ? आकारः । अर्थगतं स्त्रीत्वं शब्दे समारोप्य स्त्रीलिङ्गनिर्देशः, पूर्वशब्दो व्यवस्थावचनः । इभ्यिकेति । इभर्हतीति'दण्डादिभ्यो यः' - इभ्या, ततः पूर्वत्कः, ह्रस्वत्वं च । चटक - मूषकशब्दाभ्यामजादित्वाट्टाप् । साङ्काश्यिकेति । सङ्काशैः निर्वृतं साङ्काश्यम्,'सङ्काशादिभ्यो ण्यः' , ततो भवार्थे'धन्वयोपधाद्वुञ्' इति वुञ् । स्थानग्रहणमनर्थकम्,'षष्ठी स्थानेयोगा' इति सिद्धत्वादिति ? अत आह - स्थानग्रहणमित्यादि । परिभाषाया विधिशेषत्वादनुवादे उपस्थानं न स्यादिति भावः । अनुवादत्वमेव स्पष्टयति - आत इत्यनेन हीति । अतो योऽकारस्तस्येत्वं भवतीति वचनव्यक्तौ नाकारस्य विधिस्पर्शः कश्चिदस्तीत्यर्थः । स्त्रीप्रत्ययस्य प्रतिपत्यर्थमिति । यः'स्त्रियाम्' इत्यधिकृत्य विहितष्टाबादिः स स्त्रीप्रत्ययः, तस्य प्रतिपतिर्यथा स्यादित्येवमर्थमित्यर्थः । असति हि स्त्रीलिङ्गेयः कश्चनाकारो गृह्यएत । शुभं याति, भद्रं यातीति । क्विप् । शुभम्, भद्रमिति मकारान्तौ निपातितौ, पूर्वत्कः, ह्रस्वत्वं च । प्रतिषेध इति । तेन विधिरेव भवति । सुनयिका, सुशयिकेति । नीशीभ्याम् ठेरच्ऽ, सुशब्देन बहुव्रीहिः, टाबादि पूर्ववत् । सुपाकिका, सुशोकिकेति । पचिशुचिभ्यां घञ्,'चजोः कु घिण्ण्यतोः' इति कुत्वम् । शेषं पूर्ववत् ॥