बहुलं छन्दसि

7-1-103 बहुलं छन्दसि ॠतः धातोः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

छन्दसि विषय ॠकारान्तस्य धातोरङ्गस्य बहुलमुकारादेशो भवति। ओष्ठ्यपूर्वस्येत्युक्तम्, अनोष्ठ्यपूर्वस्यापि भवति। मित्रावरुणा॒ ततु॑रिम् (ऋ० ४.३९.२)। दू॒रे ह्यध्वा॒ जगु॑रिः (ऋ० १०.१०८.१)। ओष्ठ्यपूर्वस्यापि न भवति — पप्रितमम्। वव्रितमम्। क्वचिद् भवति — पपु॑रिः (ऋ० १.४६.४)॥

॥ इति श्रीवामनविरचितायां काशिकायां वृत्तौ सप्तमाध्यायस्य प्रथमः पादः॥

Siddhanta Kaumudi

Up

ततुरिः (ततु॑रिः) । जगुरिः पराचैः (जगु॑रिः परा॒चैः) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

ततुरिर्जगुरिरिति । तृगृभ्यामादृगमहनः इति किन्प्रत्ययः, उत्वम्, तस्य द्विर्वचनेऽचि इति स्थानिवद्भावातृगृ - इत्येतस्य द्विर्वचनम् । पप्रितममिति । पृ इत्येतस्मात्पूर्ववत्किन्, इत्वोत्वयोरभावे यण्, तस्य स्थानिवद्भावाद् द्विर्वचनम्, अतिशायने तमप् ॥