6-4-69 न ल्यपि असिद्धवत् अत्र आभात् आर्धधातुके आतः घुमास्थागापाजहातिसां
index: 6.4.69 sutra: न ल्यपि
ल्यपि प्रत्यये परतः घुमास्थागापाजहातिसां यदुक्तं तन्न। प्रदाय। प्रधाय। प्रमाय। प्रस्थाय। प्रगाय। प्रपाय। प्रहाय। अवसाय।
index: 6.4.69 sutra: न ल्यपि
ल्यपि परे घुमास्थादेरीत्वं न । धेट् । प्रधाय । प्रमाय । प्रगाय । प्रपाय । प्रहाय । प्रसाय । मीनातिमिनो-<{SK2508}> इत्यात्वम् । प्रमाय । निमाय । उपदाय । विभाषा लीयतेः <{SK2509}> । विलाय । विलीय । णिलोपः । उत्तार्य । विचार्य ॥
index: 6.4.69 sutra: न ल्यपि
यदुक्तमिति । ईत्वम्, न त्वनन्तरमेत्वम्, प्राप्त्यभावात् ॥ मयतेरिदन्यतरस्याम् ॥ अपमित्येति । उदीचां माङे व्यतीहारे इति तवाप्रत्ययः, इत्वे कृते तुक् ॥