6-3-33 पितरामातरा च छन्दसि उत्तरपदे
पितरामातरा इति छन्दसि निपात्यते। आ मा॑ गन्तां पि॒तरा॑मा॒तरा॒ च (मा०सं० ९.१९)। पूर्वपदस्याराङादेशो निपात्यते। उत्तरपदे तु <<सुपां सुलुक्०>> ७.१.३९ इति आकारादेशः। तत्र <<ऋतो ङिसर्वनामस्थानयोः>> ७.३.११० इति गुणः। छन्दसीति किम्? मातापितरौ॥
द्वन्द्वे निपातः । आ मा गन्तां पितरा मातरा च (आ मा॑ गन्तां पि॒तरा॑ मा॒तरा॑ च) । चाद्विपरीतमपि । न मातरा पितरा नू चिदिष्टौ (न मा॒तारा॑ पि॒तरा॒ न चि॑दि॒ष्टौ) । समानस्य छन्दस्यमूर्धप्रभृत्युदर्केषु <{SK1012}> समानस्य सः स्यान्मूर्धादिभिन्ने उत्तरपदे । सगर्भ्यः ।<!छन्दसि स्त्रियां बहुलम् !> (वार्तिकम्) ॥ विष्वद्गेवयोरद्र्यदेशः । विश्वाची च घृताची च (वि॒श्वाची॑ च घृ॒ताची॑च) । देवद्रीची नयत देवयन्तः (देव॒द्रीची॑ नयत देव॒यन्तः॑) । कद्रीची (क॒द्रीची॑) ॥