6-2-80 उपमानं शब्दार्थकृतौ एव पूर्वपदम् आदिः उदात्तः णिनि
उपमानवाचि पूर्वपदं शब्दार्थप्रकृतावेव णिनन्त उत्तरपद आद्युदात्तं भवति। उपमानं नियम्यते। उष्ट्र॑क्रोशी। ध्वाङ्क्ष॑रावी। खर॑नादी। उपमानग्रहणमस्य पूर्वस्य च योगस्य विषयविभागार्थम्। शब्दार्थप्रकृताविति किम्? वृ॒क॒व॒ञ्ची। वृ॒क॒प्॒रेक्षी। प्रकृतिग्रहणं किम्? प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था भवति, तत्रैव यथा स्यात्। इह मा भूत् — ग॒र्द॒भो॒च्चा॒री, को॒कि॒ला॒भि॒व्या॒हा॒री इति। एवकारकरणमुपमानावधारणार्थम्। शब्दार्थप्रकृतौ त्वनुपमानमुपमानं चाद्युदात्तं भवति। सिंह॑विनर्दी। पुष्क॑लजल्पी॥
उपमानवाचि पूर्वपदं णिन्यन्ते परे आद्युदात्तम् । उष्ट्रक्रोशी । ध्वाङ्क्षरावी । उपमानग्रहणमस्य पूर्वयोगस्य च विषयविभागार्थम् । शब्दार्थप्रकृतौ किम् । वृकवञ्ची । प्रकृतिग्रहणं किम् । प्रकृतिरेव यत्रोपसर्गनिरपेक्षा शब्दार्था तत्रैव यथा स्यात् । इह मा भूत् । गर्दभोच्चारी ॥
उष्ट्रक्रोशीत्यादौ कर्तर्युपमाने इति णिनिः । उपमानगर्हणमित्यादि । अन्यथा योगाविभागेन नियमाश्रयणसामर्थ्याद्विशिष्टविषयो नियम इत्येतावद् गम्यत, न त्विष्टो विषयविभाग इति भावः । शब्दार्थप्रकृताविति किमिति । सूत्रारम्भः किमर्थ इत्यर्थः । वृकवञ्चीति । कृत्सवर एव भवति । प्रकृतिरेवेत्यादि । असति प्रकृतिगरह्णे शब्दार्थात्परो यो णिनिस्तदन्त उतरपदे इति विज्ञायेत्, ततश्च यत्रापि धातूपसर्गसमुदायात् शब्दार्थात्परो णिनिः, तत्रापि स्यात् कृदुग्रहणे गतिकारकपूर्वस्यापि ग्रहणाण्णिन्यन्तमेवोतरपदमिति कृत्वा । प्रकृतिग्रहणे तु न भवति । योऽत्र धातुर्नासौ शब्दार्थः, यश्च शब्दार्थो धातूपसर्गसमुदायो न ततो णिनिर्विहित इति, सिद्धे विधिरारभ्यमाणोन्तरेथणाप्येवकारं नियमाय भवति, नार्थ एवकारेण तत्राह - एवकारकरणमित्यादि । असति हि तस्मिन्विपरीतो नियमः स्यात् - शब्दार्थप्रकृतौ यदि भवति उपमान एवेति । एवं च प्रकृतिर्नियम्येत, नोपमानम् । तस्मादुपमानावधारणार्थमेवकारः क्रियते । किम पुनः कारणमुपमानावधारणमाश्रीयते अत आह - शब्दार्थप्रकृताविति । तुशब्दो हेतौ, उपमाननियमे हि शब्दार्थप्रकृतेरनियतत्वातत्राप्यविशेषेण सर्वस्याद्यौदातत्वं एलभ्यते, नान्यथा । किञ्च - प्रिकृत्यवधारणेऽस्यानियतत्वाद् वृकवञ्चीत्यादावाद्यौदातत्वप्रसङ्गः ॥