6-2-175 बहोः नञ्वत् उत्तरपदभूम्नि उत्तरपदात् अन्तः बहुव्रीहौ अनोः
उत्तरपदार्थबहुत्वे यो बहुशब्दो वर्तते, तस्मान् नञ इव स्वरो भवति। <<नञ्सुभ्याम्>> ६.२.१७२ इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒य॒वो देशः। ब॒हु॒व्री॒हिः। ब॒हु॒ति॒लः। <<कपि पूर्वम्>> ६.२.१७३ इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒कु॒मा॒रीको॑ देशः। ब॒हु॒वृ॒ष॒लीकः॑। ब॒हु॒ब्॒रह्म्ाब॒न्धूकः॑। <<ह्रस्वान्तेऽन्त्यात् पूर्वम्>> ६.२.१७४ इत्युक्त म्, बहोरपि तथा भवति। ब॒हु॒यव॑को देशः। ब॒हु॒व्रीहि॑कः। ब॒हु॒माष॑कः। <<नञो जरमरमित्रमृताः>> ६.२.११६ इत्युक्तम्, बहोरपि तथा भवति। ब॒हु॒जरः॑। ब॒हु॒मरः॑। ब॒हु॒मित्रः॑। ब॒हु॒मृतः॑। उत्तरपदभूम्नीति किम्? बहुषु मनोऽस्य ब॒हुम॑ना अयम्॥
उत्तरपदार्थबहुत्ववाचिनो बहोः परस्य पदस्य नञः परस्येव स्वरः स्यात् । बहुव्रीहिकः । बहुमित्रकः । उत्तरपदेति किम् । बहुषु मानोऽस्य स बहुमानः ॥
नञ इव नञ्वत्, अस्मादेव निपातानात्पञ्चमीसमर्थाद्वतिः । यद्वा - सम्बन्धसमामान्ये षष्ठी, तया सर्वे विभक्त्यर्था संगृह्यन्त इति पञ्चम्यर्थेऽपि तत्र तस्येव इति वतिः षष्ठ।ल्न्तादेव । बहूनां भावो भूमा, बहोर्लोपो भू एच बहोः, उतरपदशब्देन तदर्थो गृह्यते, स्वरुपणोतरपदस्य बहुत्वासम्भवात् । तदाह - उतरपदार्थबहुत्व इति । किमर्थं पुनरतिदेश आश्रीयते, न नञ्सुबहुभ्य उतरपदभूम्नि इत्युच्येत, एवमपि ह्युच्यमाने उतरपदभूम्नि इत्येतत्सम्भवव्यभिचाराभ्यां बहोरेव विशेषणं भवतिष्यति, योऽपि न गुणादयोऽवयवाः इति प्रतिषेधः, तत्राप्युतरपदभूम्नीत्यनुवृतेर्बहोरेव भवतिष्यति, न नञ्सुभ्याम् - अगुणः सगुणः इति इदं तर्हि प्रयोजनम् - प्रकरणान्तरेऽपि यो नञाश्रयः स्वरस्तस्याप्यतिदेशो यथा स्यादिति । तद्दर्शयति - नञी जरमरमित्रमृता इत्युक्तमित्यादि ॥