आशितः कर्ता

6-1-207 आशितः कर्ता उदात्तः आदि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

आशितशब्दः कर्तृवाची आद्युदात्तो भवति। आशि॑तो देवदत्तः। अशेरयमाङ्पूर्वादविवक्षिते कर्मणि कर्तरि क्त ः। तत्र <<थाथघञ्०>> ६.२.१४४ इति प्राप्तः स्वरो बाध्यते। कर्तरीति किम् ? आ॒शि॒तमन्नम्। आ॒शि॒तं देवदत्तेन। पूर्वत्र कर्मणि क्तः, उत्तरत्र भावे॥

Siddhanta Kaumudi

Up

कर्तृवाची आशितशब्द आद्युदात्तः । कृषन्नित्फाल आशितम् (कृ॒षन्नित्फाल॒ आशि॑तम्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अशेरिति। ठश भोजनेऽ इत्यस्मात्। आङ्पूर्वादविवक्षिते कर्मणीति। उक्तं हि -'प्रसिद्धेरविवक्षातः कर्मणो' कर्मिका क्रियाऽ इति। कर्तरि क्त इति।'गत्यर्थाकर्मक' इत्यादिना। भाष्ये तु'कर्तरि क्तो निपात्यते' इति स्थितम्। यदि तर्ह्याङ्पूर्वकस्याशेराशित इति रूपम्, अवग्रहः प्राप्नोति, तस्मात् ठुपधादीर्घत्वमपि निपात्यतेऽ इति वार्तिककारः। वृत्तिकारस्तु -'संहितापाठ एव नित्यः, पदपाठस्तु पौरुपेयः, ततश्च न लक्षणेन पदकारा अनुवर्त्त्याः पदकारैर्नाम लक्षणमनुवर्त्यम्' इति मन्यते। अपर आह - अशेर्ण्यन्तस्य प्रयोज्यकर्तरि'गतिबुद्धिप्रत्यवसानार्थ' इति कर्मसंज्ञके निष्ठायामाशित इति रूपम्, स एवात्र भूतपूर्वगत्या कर्ता विवक्षित इति ॥