बृहत्या आच्छादने

5-4-6 बृहत्याः आच्छादने प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन्

Sampurna sutra

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


बृहत्याः आच्छादने कन्

Neelesh Sanskrit Brief

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


'बृहती' शब्दात् आच्छादनस्य निर्देशार्थम् कन्-प्रत्ययः स्वार्थे विधीयते ।

Kashika

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


कन्ननुवर्तते, न प्रतिषेधः। बृहतीशब्दादाच्छादने वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। बृहतिका। आच्छादने इति किम्? बृहतीछन्दः।

Siddhanta Kaumudi

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


कन् स्यात् । द्वौ प्रावारोत्तरासङ्गौ समौ बृहतिका तथा ॥ आच्छादने किम् । बृहती छन्दः ॥

Neelesh Sanskrit Detailed

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


'बृहती' इति स्त्रीणाम् किञ्चन वस्त्रम् (shawl / stole) । आच्छादनरूपेण प्रयुक्ता या बृहती, तस्याः निर्देशार्थम् बृहतीशब्दात् स्वार्थे कन् प्रत्ययः भवति । आच्छादने प्रयुक्ता बृहती सा एव = बृहतिका । केऽणः 7.4.13 इत्यनेन ह्रस्वादेशं कृत्वा शब्दः सिद्ध्यति । बृहतिका इत्युक्ते प्रावारः ('ओढनी' इति हिन्दीभाषायाम्) ।

विशेषः -

  1. अस्मिन् सूत्रे 'आच्छादनम्' इति उच्यते, अतः 'बृहती छन्दः' इत्यस्य विषये अस्य सूत्रस्य प्रयोगः न भवति ।

  2. यद्यपि इदम् सूत्रम् समर्थानाम् प्रथमात् वा 4.1.82 इत्यत्र निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, तथापि भाष्यकारस्य मतेन अत्र विकल्पः न विधीयते । इत्युक्ते, आच्छादने प्रयुक्ता या बृहती, तस्याः निर्देशः बृहतिका इत्यनेनैव क्रियते, न हि 'बृहती' इत्यनेन । (अस्मिन् विषये अधिकम् जिज्ञासवः अषडक्षाशितङ्ग्वलंकर्मालम्पुरुषाध्युत्तरपदात् खः 5.4.7 इत्यस्य व्याख्यानम् पश्येयुः ।)

Balamanorama

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


बृहत्या आच्छादने - वृहत्या आच्छादने । 'कन्' इति शेषः । बृहत्येव बृहतिका=उत्तरीयं वासः । तदाह — द्वौ प्रावार इति । अमरवाक्यमिदम् । अषडक्षा । स्वार्थे इति । शेषपूरणमिदम् । अषडक्ष, आशितङ्गु, अलङ्कर्मन्, अलम्पुरुष एभ्योऽध्युत्तरपदाच्च स्वार्थे खः स्यादित्यर्थः ।

Padamanjari

Up

index: 5.4.6 sutra: बृहत्या आच्छादने


बृहतिकाउप्रावारः ॥