5-4-4 अनत्यन्तगतौ क्तात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन्
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
अनत्यन्तगतौ क्तात् कन्
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
'अत्यन्तगतेः अभावः' अस्मिन् सन्दर्भे क्त-प्रत्ययान्तशब्दात् कन्-प्रत्ययः स्वार्थे विधीयते ।
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
अत्यन्तगतिः अशेषसम्बन्धः, तदभावोऽन्त्यन्तगतिः। अनत्यन्तगतौ गम्यमानायां क्तान्तात् कन्प्रत्ययो भवति। भिन्नकः। छन्नकः। अनत्यन्तगतौ इति किम्? भिन्नम्। छिन्नम्।
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
छिन्नकम् । भिन्नकम् । अभिन्नकम् ॥
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
'अत्यन्तगति' इत्युक्ते 'अशेषसम्बन्धः / सम्पूर्णसम्बन्धः' (completely, fully, to the maximum extent इत्याशयः) । यथा, किञ्चन वस्तु सम्पूर्णरूपेण भग्नम् भवति चेत् तस्य वर्णनम् 'अत्यन्तगत्या भग्नम्' इत्यनेन क्रियते । यत्र अत्यन्तगतिः न विद्यते, तत्र 'अनत्यन्तगति' (= न अत्यन्तगतिः) अस्तीति उच्यते । एतादृशस्य वस्तुनः निर्देशार्थम् 'क्त' प्रत्ययान्तप्रातिपदिकात् स्वार्थे कन्-प्रत्ययः भवति ।
यथा - अनत्यन्तगत्या भग्नम् (किञ्चित् भग्नम्, सम्पूर्णरूपेण न भग्नम्, Only partially broken इत्याशयः)
= भग्न + कन्
→ भग्नक
यत् किञ्चित् भग्नम् तत् भग्नकम् । यथा - भग्नकः शैलः । भग्निका मूर्तिः (प्रत्ययस्थात् कात् पूर्वस्यात इदाप्यसुपः 7.3.44 इति इकारादेशं कृत्वा रूपं सिद्ध्यति)।
एवमेव - अनत्यन्तगत्या छिन्नः छिन्नकः । अनत्यन्तगत्या भिन्नः भिन्नकः ।
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
अनत्यन्तगतौ क्तात् - अनत्यन्तगतौ क्तात् । अत्यन्तगतिरशेषावयवसम्बन्धः, तदभावः=अनत्यन्तगतिः, तस्यां गम्यमानायां क्तान्तात्कन्नित्यर्थः । छिन्नकमिति । किञ्चिदवयवावच्छेदेन छिन्नमित्यर्थः ।
index: 5.4.4 sutra: अनत्यन्तगतौ क्तात्
अशेषसम्बन्ध इति। क्तप्रकृतिवाच्यया क्रियया साधनस्य व्याप्तिरित्यर्थः। भिन्नकमिति। ईषद्भिन्नमित्यर्थः। भिन्नमिति। यदशेषं भिदिक्रियाया व्याप्तं घटादि तदभिधीयते। इहानत्यन्तगतेः प्रकर्षस्य च युगपद्विवक्षायां पूर्वविप्रतिषेधेन पूर्वमातिशायिक इष्यते, तदन्तात्कन्वक्तव्यः, अक्तान्तत्वाद्धि न प्राप्नोति - भिन्नतरकं च्छिन्नतरकमिति। आह च - ठनत्यन्तगतौ क्तान्तातमबादयः पूर्वविप्रतिषिद्धं तदन्ताच्च स्वार्थे कन्वचनम्ऽ इति। स्वार्थः पुनरनत्यन्तगतियुक्त एव, न शुद्धः। तथा हि सति अनत्यन्तगतिर्द्योतिता न स्यात् ॥