साक्षाद्द्रष्टरि संज्ञायाम्

5-2-91 साक्षात् द्रष्टरि सञ्ज्ञायाम् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा इनिः

Sampurna sutra

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


'द्रष्टरि' (इति) संज्ञायाम् साक्षात् इनि

Neelesh Sanskrit Brief

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


'साक्षात्' इत्यस्मात् शब्दात् द्रष्टुः निर्देशार्थम् संज्ञायाः विषये 'इनि' प्रत्ययः भवति ।

Kashika

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


साक्षाच्छब्दोऽव्ययम्। तस्मादिनिः प्रत्ययो भवति द्रष्टरि वाच्ये। संज्ञाग्रहणमभिधेयनियमार्थम्। साक्षाद् द्रष्टा साक्षी। साक्षिणौ। साक्षिणः। संज्ञाग्रहणादुपद्रष्टा एव उच्यते, न दाता ग्रहीता वा।

Siddhanta Kaumudi

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


साक्षाद्रष्टा साक्षी ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


'साक्षात्' इति किञ्चन अव्ययम् । साक्षात्प्रभृतीनि च 1.4.74 अनेन सूत्रेण अस्य अव्ययसंज्ञा भवति । अस्मात् शब्दात् 'द्रष्टा' ( = पश्यति सः) अस्मिन् अर्थे संज्ञायाः निर्देशार्थम् 'इनि' प्रत्ययः भवति । प्रक्रिया इयम् -

साक्षात् द्रष्टा

= साक्षात् + इनि

→ साक्ष् + इन् [नस्तद्धिते 6.4.144 इत्यत्र निर्दिष्टेन <!अव्ययानां च सायंप्रातिकाद्यर्थमुपसङ्ख्यानम्!> अनेन वार्त्तिकेन अत्र टिलोपः भवति ।]

→ साक्षिन्

अस्य रूपाणि - साक्षी साक्षिणौ साक्षिणः - एतादृशं भवन्ति । यः पश्यति सः साक्षी ।

विशेषः - अत्र 'संज्ञायाम्' इति निर्देशः क्रियते, अतः विशिष्टेषु सन्दर्भेषु एव अस्य शब्दस्य प्रयोगः भवति । यथा, यः कोऽपि स्वयं कार्यम् करोति सः यद्यपि स्वेन कृतं कार्यम् द्रष्टुमर्हति, तथापि तस्य निर्देशार्थम् 'साक्षी' इति शब्दः न विधीयते । यः केवलम् द्रष्टा अस्ति (स्वयम् कार्ये भागं न गृह्णाति) तस्यैव निर्देशः अत्र 'साक्षी' इत्यनेन भवति । Witness - इति सामान्यः अर्थः ।

Balamanorama

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


साक्षाद्द्रष्टरि संज्ञायाम् - साक्षाद्द्रष्टरि ।साक्षा॑दित्यव्ययम्, इह शब्दस्वरूपपरं लुप्तपञ्चमीकम् । साक्षादित्यव्ययाद्द्रष्टर्यर्थे इनिः स्यादित्यर्थः । साक्षीति । यः कर्मणि स्वयं न व्याप्रियते, किन्तु कर्म क्रियमाणं पश्यति सोऽयं साक्षीत्युच्यते । साक्षादित्यव्ययादिनिप्रत्ययः । 'अव्ययानां भमात्रे' इति टिलोपः ।

Padamanjari

Up

index: 5.2.91 sutra: साक्षाद्द्रष्टरि संज्ञायाम्


साक्षाच्छब्दोऽव्ययमिति। तेन प्रकृतिवदनुकरणं भवतीति सूत्रे पञ्चम्या अलुक्, उदाहरणे च ठव्ययानां भमात्रेऽ इति टिलोप इति भावः। संज्ञाग्रहणादित्यादि। त्रिभिः साक्षाद् दृष्ट्ंअ भवति - यश्च ददाति, यस्मै च दीयते, यश्च पार्श्वे स्थितः पश्यति, तत्र सर्वत्र प्रत्ययः प्राप्नोति। संज्ञाग्रहणाद्धनिकाधमर्णयोर्न भवतीत्यर्थः ॥