आप्रपदं प्राप्नोति

5-2-8 आप्रपदं प्राप्नोति प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा खः तत्

Sampurna sutra

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


'प्राप्नोति' (इति) आप्रपदम् खः

Neelesh Sanskrit Brief

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


'प्राप्नोति' अस्मिन् अर्थे 'आप्रपद' शब्दात् ख-प्रत्ययः भवति ।

Kashika

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


प्रपदम् इति पादस्य अग्रमुच्यते। आङ् मर्यादायाम्। तयोरव्ययीभावः। आप्रपदशब्दात् तदिति द्वितीयासमर्थात् प्राप्नोति इत्येतस्मिन्नर्थे खः प्रत्ययो भवति। आप्रपदं प्राप्नोति आप्रपदीनः पटः। शरीरेण असम्बद्धस्य अपि पटस्य प्रमाणमाख्यायते।

Siddhanta Kaumudi

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


पादस्याग्रं प्रपदं तन्मर्यादीकृत्य आप्रपदम् । आप्रपदीनः पटः ॥

Neelesh Sanskrit Detailed

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


'प्राप्नोति' इति 'प्र + आप्' इत्यस्य लट्-लकारस्य प्रथमपुरुषैकचनस्य रूपम् । 'समीपम् गच्छति' (reaches there) अस्मिन् अर्थे अयम् शब्दः अत्र प्रयुज्यते ।

'प्रपद' इत्युक्ते पदस्य अग्रभागः (tip of the tow) । 'आप्रपद' अयम् शब्दः 'प्रपद' शब्दात् 'आङ्' इत्यस्य योजनं कृत्वा सिद्ध्यति । अत्र 'आङ्' इत्यस्य अर्थः 'मर्यादा' इति स्वीक्रियते । अतः 'आप्रपद' शब्दस्य अर्थः अत्र 'पदस्य अग्रभागम् यावत्, परन्तु तत् विहाय' - इति गृह्यते । Till the tip of the toe, with without including it - इति आशयः ।

एतादृशात् 'आप्रपद' शब्दात् द्वितीयासमर्थात् 'प्राप्नोति' अस्मिन् अर्थे ख-प्रत्ययः भवति । आप्रपद + ख → आप्रपदीन । आप्रपदम् प्राप्नोति तत् आप्रपदीनम् वस्त्रम् । यत् वस्त्रम् पदस्य अग्रभागम् यावत् गच्छति, परन्तु तमग्रभागम् पूरयितुमसमर्थः वर्तते, तस्य निर्देशः 'आप्रपदीनम् वस्त्रम् ' इति क्रियते । A piece of clothing that reaches till the tip of the toe but fails to cover the tip of the toe completely is called आप्रपदीन ।

विशेषः -

  1. वर्तमानसूत्रे 'प्राप्नोति' इति क्रियापदमुच्यते । पूर्वस्मिन् सूत्रे तत्सर्वादेः पथ्यङ्गकर्मपत्रपात्रं व्याप्नोति 5.2.7 इत्यत्र 'व्याप्नोति' इति क्रियापदम् प्रयुक्तमस्ति । द्वयोः शब्दयोः सूक्ष्मः भेदः विद्यते यः न्यासकारेण स्पष्टीक्रियते - 'सम्बन्धमात्रं प्राप्तिः, सम्बन्ध एव साकल्येन व्याप्तिरित्येव विशेषः' । इत्युक्ते, 'प्राप्नोति' इति शब्दः केवल-सम्बन्धस्य (mere contact) निर्देशार्थम् प्रयुज्यते , तथा च 'व्याप्नोति' अयम् शब्दः 'सम्पूर्णरूपेण आच्छादयति' (filling up completely) अस्मिन् अर्थे प्रयुज्यते ।

  2. 'आप्रपदम्' अयम् शब्दः अव्ययीभावसमासेन निर्मितः अस्ति, अतः अस्मात् शब्दात् विहितस्य सुप्-प्रत्ययस्य नाव्ययीभावादतोऽम्त्वपञ्चम्याः 2.4.83 इत्यनेन 'अम्'-आदेशः भवति । अतएव विग्रहवाक्ये 'आप्रपदम्' इति शब्दः प्रयुज्यते ।

Balamanorama

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


आप्रपदं प्राप्नोति - आप्रपदमिति ।आङ्मर्यादाभिविध्यो॑रित्यव्ययीबावः । अनुपद । अनुपद, सर्वान्न, अयानय-एषां समाहारद्वन्द्वाद्द्वितीया । बद्धा, भक्षयति, नेय-एषां द्वन्द्वात्सप्तमी । तिङन्तस्य द्वन्द्वानुप्रवेश आर्षः । अनुपदादिभ्यो द्वितीयान्तेभ्यः क्रमाद्बद्धादिष्वर्थेषु खः स्यादित्यर्थः । अनुरायामे सादृश्ये वेति । आद्ये 'यस्य चायामः' इत्यव्ययीभावः, द्वितीये सादृश्ये अव्ययीभावः ।

Padamanjari

Up

index: 5.2.8 sutra: आप्रपदं प्राप्नोति


प्रापदमिति पादस्याग्रमुच्यत इति। प्रारम्भः पदस्येति कृत्वा। तयोरव्ययीभाव इति। ???????????????????? इत्यनेन। द्वितीयासमर्थादिति। क्रियाविशेषणे'कर्मणि द्वितीया' । आप्रपदं यथा तथा सर्वशरीरं प्राप्नोतीत्यर्थः। शरीरेणासम्बद्धस्यापि पटस्य प्रमाणमाख्यायत इति। योग्यत्वात्, योग्यो ह्यसावाप्रपदं शरीरं प्राप्तुम्। व्याप्नोतीति प्रकृते प्राप्तनोतीति वचनमर्थभेदात् - सम्बन्धमात्रमुप्राप्तिः, सम्बन्धः साकल्योपाधिकःउव्याप्तिः। ठाप्रपदम्ऽ इत्यत्र त्वभिविधौ व्याप्त्रिगम्यते, न गर्यादायाम् ॥