5-2-11 अवारपारात्यन्तानुकामम् गामी प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा खः तत्
'तत् अवारपारम्, अत्यन्तम्, अनुकामम् गामी' (इति) खः
'गामी' इत्यस्मिन् अर्थे 'अवारपार', 'अत्यन्त' तथा 'अनुकाम' एतेभ्यः द्वितीयासमर्थेभ्यः 'ख'-प्रत्ययः भवति ।
अवारपार अत्यन्त अनुकाम इत्येतेभ्यो द्वितीयासमर्थेभ्यो गामीत्येतस्मिन्नर्थे खः प्रत्ययो भवति। गमिष्यतीति गामी, <<भविष्यति गम्यादयः>> ३.३.३ इति। <<अकेनोर्भविष्यदाधमर्ण्ययोः>> २.३.७० इति षष्ठीप्रतिषेधः। अवारपारं गामी अवारपारीणः॥ विगृहीतादपीष्यते॥ अवारीणः, पारीणः॥ विपरीताच्च॥ पारावारीणः। अत्यन्तं गामी अत्यन्तीनः। भृशं गन्तेत्यर्थः। अनुकामं गामी अनुकामीनः। यथेष्टं गन्तेत्यर्थः॥
अवारपारं गामी अवारपरीणः । अवारीणः । पारीणः । पारावारीणः । अत्यन्तं गामी अत्यन्तीनः । भृसं गन्तेत्यर्थः । अनुकामं गामी अनुकामीनः । यथेष्टं गन्तेत्यर्थः ॥
'गामी' इत्युक्ते 'गमिष्यति सः' । 'गम्' धातोः <<आवश्यकाधमर्ण्ययोर्णिनिः>> 3.3.170 इत्यनेन 'णिनि' प्रत्ययं कृत्वा 'गामिन्' इति प्रातिपदिकम् सिद्ध्यति, तस्य इदम् प्रथमैकवचनम् । अस्मिन् सूत्रे 'गामी' इत्यस्मिन् अर्थे त्रिभ्यः शब्देभ्यः 'ख'प्रत्ययः उच्यते । क्रमेण पश्यामः - 1. 'अवारपार' - 'अवारपार' इत्युक्ते सागरस्य द्वितीयः तटः (other end of ocean). सागरमपि उल्लङ्घ्य यः गमिष्यते , तस्य निर्देशार्थम् 'अवारपार'शब्दात् ख-प्रत्ययः क्रियते । अवारपारम् गामी अवारपारीणः । अस्य शब्दस्य विषये वार्त्तिकमेकम् पाठ्यते - <!विगृहीतादपि इष्यते, विपरिताच्च!> । इत्युक्ते, 'अवार', 'पार', तथा 'पारावार' - एतेभ्यः शब्देभ्यः अपि वर्तमानसूत्रेण ख-प्रत्ययः भवति । अवारं गामी अवारीणः । पारं गामी पारीणः । पारावारं गामी पारावारीणः । 2. 'अत्यन्त' - 'बहु' अस्मिन् अर्थे अयम् शब्दः प्रयुज्यते । अत्यन्तम् गामी अत्यन्तीनः । भृशमन्तरम् गच्छति (The one who will travel a huge amount of distance) इत्यर्थः । 3. अनुकाम - 'काममनुसृत्य' (यथेच्छम्, based on the will) इति अस्य शब्दस्य अर्थः । अनुकामम् गच्छति अनुकामीनः ।
<<अवारपारात्यन्तानुकामं गामी>> - अवारपार । अवारपार, अत्यन्त, अनुकाम — एभ्यो गामीत्यर्थे खः स्यादित्यर्थः । गामीत्यस्य अवश्यं गमिष्यन्नित्यर्थः ।आवश्यकाधमण्र्ययोर्णिनि॑रिति णिनिः । 'भविष्यति गम्यादयः' इति भविष्यत्कालता । 'बहुलमाभीक्ष्ण्ये' इति वा णिनिः । अवारपारीण इति । अवारपारं गामीति विग्रहः । अवारपारशब्दाद्विगृहीताद्विपरीतादपि, व्याख्यानात् । तदाह — अवारीणः पारीण इति । अत्यन्तीन इति । अत्यन्तशब्दोऽत्र भृशवाची । तदाह — भृशं गन्तेति । अनुकाममिति । कामः=इच्छा । तामनतिक्रम्येत्यर्थः । पदार्थानतिवृत्तावव्यायीभावः ।
गामीति।'गमेरिनिः' , ठाङ् इणिच्चऽ इति बहुलवचनात्केवलादपि णिनिर्भविष्यति। गम्यादय इति। यद्यप्याङ्पूर्वा गमिर्गम्यादिषु पठ।ल्ते, तथापि बहुलवचनादेव णिनिरिव भविष्यत्कालत्मपि भविष्यतीति भावः। अकेर्नोर्भविष्यदाधमर्ण्ययोरिति षष्ठीप्रितिषेध इति।'गत्यर्थकर्मणि' इत्यत्र यदुक्तम् -'द्वितीयाग्रहणमपवादविषये विदानार्थं तेन कृत्प्रत्ययप्रयोगे षष्ठी न भवति - ग्रामं गन्ता' इति, तन्नाश्रितमम्; प्रतिषेधे षष्ठीप्रसङ्गस्यैवाभावात्। अवारपारीण इति। द्वन्द्वात्प्रत्ययः। अवारपारे तीरे आहिताग्नयादिषु पक्षेपादुभयं भवति - अवारपारे, पारावारे इति । अत्न्तमिति । क्रियाविशेषणम्, एवमनुकाममिति। कामःउइच्छा, तस्य सदृशमनुकाममुकामानुरूपम्,'यथार्थे यदव्ययम्' इति समासः ॥