5-1-112 समापनात् सपूर्वपदात् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्रयोजनम् छः
'तद् अस्य प्रयोजनम्' (इति) समापनात् सपूर्वपदात् छः
'अस्य प्रयोजनम्' अस्मिन् अर्थे समस्तपदस्य उत्तरपदम् 'समापन' इति अस्ति चेत् तस्मात् शब्दात् छ-प्रत्ययः भवति ।
समापनशब्दात् सपूर्वपदाद् विद्यमानपूर्वपदाच्छः प्रत्ययो भवति तदस्य प्रयोजनमित्येतस्मिन् विषये। ठञोऽपवादः। छन्दस्समापनं प्रयोजनमस्य छन्दःसमापनीयम्। व्याकरणसमापनीयम्। पदग्रहणं बहुच्पूर्वनिरासार्थम्॥
व्याकरणसमापनं प्रयोजनमस्य व्याकरणसमापनीयम् ॥
प्रयोजनम् इत्युक्ते उद्देशः / कारणम् / फलम् (goal / purpose) । प्रथमासमर्थात् उद्देशवाचीशब्दात् 'अस्य' इत्यस्मिन् अर्थे <<प्रयोजनम्>> 5.1.109 इत्यनेन औत्सर्गिकरूपेण ठञ्-प्रत्ययः भवति । परन्तु यस्य शब्दस्य उत्तरपदम् 'समापन' (= समाप्तिः / अन्तः / completion / conclusion) इति वर्तते तस्मात् शब्दात् एतम् औत्सर्गिकप्रत्ययं बाधित्वा छ-प्रत्ययः विधीयते । यथा - 1. छन्दःसमापनम् प्रयोजनमस्य सः छन्दःसमापनीयः वर्गः । 2. व्याकरणसमापनम् प्रयोजनमस्य सः व्याकरणसमापनीयः पाठः ।
<<समापनात् सपूर्वपदात्>> - समापनात्सपूर्वपदात् । सपूर्वपदात्समापनशब्दादस्य प्रयोजनमित्यर्थे छः स्यादित्यर्थः । व्याकरणसमापनीय इति । 'मङ्गलाचार' इति शेषः ।