4-3-118 कुलालादिभ्यः वुञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तेन कृते सञ्ज्ञायाम्
तेन, कृते, संज्ञायामिति चैतत् सर्वमनुवर्तते। कुलालादिभ्यो वुञ् प्रत्ययो भवति तेन कृतमित्येतस्मिन्नर्थे संज्ञायां गम्यमानायाम्। कौलालकम्। वारुडकम्॥ कुलाल। वरुड। चण्डाल। निषाद। कर्मार। सेना। सिरिध्र। सेन्द्रिय। देवराज। परिषत्। वधू। रुरु। ध्रुव। रुद्र। अनडुह्। ब्रह्मन्। कुम्भकार। श्वपाक। कुलालादिः॥
तेन कृते संज्ञायाम् । कुलालेन कृतं कौलालकम् । वारुडकम् ॥
<<कुलालादिभ्यो वुञ्>> - कुलालादिभ्यो वुञ् ।तेन कृते संज्ञाया॑मिति शेषपूरणम् । वारुडकमिति । वरुडो जातिविशेषः ।