नडशादाड्ड्वलच्

4-2-88 नडशादात् ड्वलच् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

नडशादशब्दाभ्यां ड्वलच् प्रत्ययो भवति चातुरर्थिकः। यथासंभवमर्थसंबन्धः। नड्वलम्। शाद्वलम्॥

Siddhanta Kaumudi

Up

नड्वलः । शादो जम्बालघासयोः । शाद्वलः ॥

Laghu Siddhanta Kaumudi

Up

नङ्वलः । शाद्वलः ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<नडशादाड्ड्वलच्>> - नडशादाड्ड्वलच् । नड्वल इति । डित्त्वाट्टिलोपः । शाद्वल इति । शादा अस्मिन्सन्तीति विग्रहः । शादो — दन्त्योपधः । डोपध इत्यन्ये ।नडप्राये नड्वान्नड्वल इत्यपी॑त्यमरः । 'शाद्वलः शादहरिते' इति च ।

Padamanjari

Up

शादशब्दो दोपधः,'पङ्को' स्त्री शादकर्दमौऽ इति ॥