मध्वादिभ्यश्च

4-2-86 मध्वादिभ्यः च प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् मतुप्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

मधु इत्येवमादिभ्यः शब्देभ्यो मतुप् प्रत्ययो भवति चातुरर्थिकः। अनद्यर्थ आरम्भः। मधुमान्। बिसवान्॥ मधु। बिस। स्थाणु। मुष्टि। इक्षु। वेणु। रम्य। ऋक्ष। कर्कन्धु। शमी। किरीर । हिम । किशरा। शर्पणा। मरुत्। मरुव। दार्वाघाट। शर। इष्टका। तक्षशिला। शक्ति। आसन्दी। आसुति। शलाका। आमिधी। खडा। वेटा। मध्वादिः॥

Siddhanta Kaumudi

Up

मतुप् स्याच्चातुरर्थिकः । अनद्यर्थ आरम्भः । मधुमान् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<मध्वादिभ्यश्च>> - मध्वादिभ्यश्च । शेषपूरणेन सूत्रं व्याचष्टे — मतुप्स्याच्चातुरर्थिक इति । मधुमानिति । मधूनां निवास इत्यर्थः । पूर्वेण सिद्धे किमर्थमिदमित्यत आह — अनद्यर्थ इति ।

Padamanjari

Up